पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-सुमानसाख्यायिका
५५७
बृहत्कथामझरी ।

ततः पवनवेगेन तुरगेण धुतांशुकः ॥ २० ॥
अमानुपी भुवं प्राप्य विश्रम्य सरसि क्षणात् ।
कैलासशिखराकारमपश्यंस्त्र्यम्बकालयम् ॥ २०२॥
तत्रोपबीणयन्तीं च दिव्यकन्यां विलोक्य सः ।
पप्रच्छाकालतपसः करणं यौवनावनीम् ।। २०३॥
सा प्राह हिमशैलेन्द्रशिखरे काञ्चनाहये !
पद्मकूटाभिधानोऽस्ति श्रीमान्विद्याधराधिपः ॥ २०४ ।।
मनोरश्रप्रभा नाम मुताहं खेहशालिनः ।
तस्य रत्नप्रभाख्यायां पाया जाता यशस्विनः।। २०६॥
कालेन यौवनवती कदाचित्स्नातुमागता । ..
सरस्तत्र साराकारमपश्यं मुनिपुत्रकम् ॥ २० ॥
ततोऽहं तं विलोक्यैव पुष्पायुधवशीकृता ।
अभवं कम्पकलिकालतेव पवनाकुला ॥ २०७॥
अथ तत्सचिवः पृष्ठो मत्सख्या पालेखया ।
उवाच बुधदत्ताख्यस्तजन्मक्रमशः कथाम् ॥ २० ॥
अस्ति दीधितिमान्नाम मुनीन्द्रो विजितेन्द्रियः ।
ते सरः सानुमायान्तं सरोलक्ष्मीर्व्यलोकयत् ॥ २०९।।
सं दृष्ट्वैव सकामायां मानसस्तनयः क्षणात् !
जातोऽयं रश्मिमानाम तस्यां साक्षादिव स्मरः ॥ ११ ॥
इति तद्वचनं श्रुत्वा सखी नाम कुलं च मे।
तस्मै न्यवेदयज्ज्ञात्वा स्मरसंयोगमादयोः ।। २१६ ।।
ततोऽहं पितुरादेशादाहूता शशिलेखया ।
मुषितेवायतध्याना सशल्येवाहितव्यथा ।
भूतग्रस्तेव सोन्मादा ततोऽहमभवं क्षणात् ॥ २१२ ।।
मां विना सुनिपुत्रोऽपि सः मनोमवतापितः ।
बभूव बालनलिनीवलयालंकृतस्थितिः ।। २१३ ॥


१. 'कुलसंक' ख.