पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
काव्यमाला ।

(अस्ति हेमवती नाम संसारविपुलाटवी ॥ १८८ ॥
तत्र रोहीतकतरौ शुकलक्षसमाश्रये)।
जनितोऽहं प्रवयसा शुकेनात्यन्तपेशलः ॥ १८९ ॥
दैवान्मां जननीहीनमवर्धयत वत्सलः ।
मत्पिता बन्धुहीनेषु याति स्नेहो ह्यनल्पताम् ॥ १९० ॥
कदाचिन्मृगयासक्तैर्वने तस्मिन्विलोडिते ।
हतेभक्रोडहरिणैः पुलिन्दैः पिशिताशिभिः ॥ १९१ ।।
जरन्निषादेनैकेन तमारुह्य महीरुहम् ।
ग्रीवामोटननिर्जीवा नीतास्तेनाखिलाः शुकाः ॥ १९२ ॥
ततः स्वकर्मणः शेषात्पतितः पर्णसंचये।
स्नातुं प्राप्तेन नीतोऽहं मुनिना करुणाब्धिना ॥ १९३ ॥
मारीचनाना तेनाहं स्थापितः कृपयाश्रमे ।
दृष्टः पुलस्त्यमुनिना सहासं दिव्यचक्षुषा ।। १९४ ॥
आत्मनो दुर्नयस्येदं भुङ्क्ते फलमयं शुकः ।
इति ब्रुवाणं पप्रच्छुः पुलस्त्यं मत्कथां द्विजाः ।। १९५ ॥
सोऽभ्यधाभवच्छीमात्रत्नाकरपुरे नृपः ।
ज्योतिःप्रभाख्यो भूपालमौलिलालितशासनः ॥ १९६ ।
सोभप्रभोऽभवत्तस्य चन्द्रांशः स्वप्नसूचितः
पुत्रः कान्तिनिधिर्लॊकलोचनानन्दनिझरः ॥ १९७ ॥
यौवराज्ये धृतः पित्रा सोऽथ दिग्विजयोद्यतः ।
निर्ययौ विपुलानीकैररातिविभवाशनिः ॥ १९८ ॥
सह प्रियाकराख्येन मन्त्रिपुत्रेण धीमता ।
विजित्य पृथिवीं सर्वां विपुलं प्राप काननम् ॥ १९९ ॥
कान्तां वनश्रियं तत्र लीलयैव विलोकयन् ।
ददर्श किलरं दिव्यरलाम्बरविभूषितम् ॥ २० ॥
तं कौतुकादनुसरन्स्फटिकस्वच्छविग्रहम् ।


एनोडास्तर्गत पात्रा ख-युस्तके टितः