पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-सुभानसाख्यायिका ।।
५५५
वृहत्कथामञ्जरी ।

स्फटिकाह्वयशाः श्रीमानस्ति विद्याधरेश्वरः ।। १७५ ।।
(तस्य शक्तियशा नाम सुताहं पार्वतीवरात् ।
जाता हेमप्रभाख्यायां देव्यां देवाधिपप्रिया ॥ १७६ ॥
कालेन मम शर्वाण्या सदाराधनतुष्टया
यौवनश्रियमालोक्य वितीर्णः प्रवरो वरः ॥ १७७ ]]
वत्सभूपालतनयो भाविविद्याधरेश्वरः) ।
नरवाहनदत्तस्ते भविष्यत्यचिरात्पतिः ॥ १७८ ।।
इति देव्या समादिष्टा प्रहृष्टा पितुराज्ञया ।
विद्याभितद्वराप्तिभिस्त्वामहं द्रष्टुमागता ॥ १७९ ॥
ब्रजामि तावदचिरासंगमो नौ भविष्यति ।
इत्युक्त्वा सानुगा व्योमा प्रययौ मजुभाषिणी ॥ १८ ॥
स्वप्नदृष्टमिवाशेषं गन्यमानतदद्भुतम् ।
नरवाइनदत्तोऽभूचिन्तालोचननिचलः ।। १८१ ।।
स शनैर्विरहाकान्तः स्मरसंतापनिःसहः ।
विनोदिनीं कथां कांचित्कश्रयेत्याह गोमुखम् ॥ १८२ ॥
स प्राह काञ्चनपुरीपतिरासीमानसः ।
राजा विराजमानानां श्रेयसा यशसां निधिः ।। १८३ ।।
(तं कदाचित्सभास्थानस्थित शबरकन्यका
क्रान्ता मुक्तालता नाम प्रतीहारेण सूनिता १८३ ॥
पञ्जरस्थं समादाय शुकं भरकतच्छत्रिम् ।
अन्तः प्रविष्टा प्रोवाच प्रणम्य जगतीपतिम् ।। १८५ ॥
शुकोऽयं देच योग्यो मे विज्ञानमधुरध्वनिः) ।
इत्युक्त्वा भूमिपालस्य पञ्जरं निदधे पुरः ॥ १८६ ॥
ततः कृताहिको राजा शुकमाय तं रहः।
पप्रच्छ सर्वशास्त्रज्ञं विज्ञानावाप्तिकारणम् ॥ १८७ ॥
राज्ञा स पृष्टः प्रोवाच श्रूयतामद्भुतं विभो ।


१.-२. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः.