पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५४
काव्यमाला ।

तमागतं निष्प्रतिभं भीमं नीचं निराश्रयम् ।
निरुत्तरं विलोक्यैव लज्जिता शुचमाययौ ॥ १६.४ ।।
अहो नु योषितः पापा यदयं तादृशं पतिम् ।
धीरं विस्मृत्य नीचेऽस्मिन्नभिलाषमुपागता ॥ १६५
इति संचिन्त्य सा युक्त्या तं निरस्य नराधमम्
निनिन्द मुहुरात्मानं जहास नरकान्तरम् ।। १६६ ॥
अत्रान्तरे पराञ्जित्वा राजा सिंहबलो युधि ।
राज्यमासाद्य दयितां निनाय स निजां पुरीम् ॥ १६७ ॥
इत्येवमाशयः स्त्रीणां दुर्विज्ञेयः सुरैरपि ।
इति श्रुत्वा शनैनिद्रामवाप नरवाहनः ॥ १६८ ॥
इति सिंहबलाख्यायिका ॥ ७ ॥
ततः प्रातः समुत्थाय राजपुत्रः सुहृद्वृतः ।
कृताह्निको वरोद्यानं प्रययौ फुल्लपादपम् ॥ १६९ ॥
तत्र मत्तालिमालाङ्ककुसुमस्मेरविभ्रमे ।
अवतीर्णां दिवः कान्तां ददर्श वरकन्यकाम् ॥ १७० ॥
कन्याशतैरनुरतां सतारामिव रोहिणीम् ।
नवलावण्यपीयूषप्लाविताखिलादिङ्मुखाम् ।
मुग्धाश्चकोरवनिता यत्कान्तिनिवहं ययुः ॥ १७१ ॥
तां वीक्ष्य कार्तिकीचन्द्रवदनां भदनावनिम् ।
विस्मितो राजतनयो हर्षोत्कर्षोक्तमप्यभूत् ॥ १७२ ॥
नेत्रपेयं वपुस्तस्याः पश्यन्ननिमिषेक्षणः
पप्रच्छ मन्मथाक्रान्तस्ता नामाभिजनश्रियम् ॥ १७३
सेन कामाभिरामेण रामा हृदयहारिणी ।
यो पृष्ठा प्राह सोत्कम्पकुचविन्यस्तलोचना ॥ १७४ ।।
शिखरे काश्चनाले तुषारधरणीभृतः ।


किया