पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-सिंहबलाख्यायिका ।।
५५३
बृहत्कयामतरी ।

अयं में व्यथते बाहुस्त्वदाकृष्टः करोमि किम् ॥ १९१ ॥
इति तद्वचसा क्षिप्रं स ययौ भृशमार्द्रताम् ।
लभ्यन्ते स्त्रीपिशाचीभिरुच्छिष्टा इव रागिणः ।। १५२ ॥
(सोऽवदद्दयिते पापं तव मिथ्यापकारिणम्) ।
त्वं ताडय (लताभिर्मां तेन कोपः प्रयातु ते
इति सा तद्वचः श्रुत्वा क्षिप्रमेव तदाहृतैः) ।
तं बबन्ध लतापाशैः सान्तसिं चलाम्बरा ।। १५४ ।।
गाढबद्धस्य तत्राशु छित्वा सा कर्णनासिकम् ।
तच्छत्रेणैव सहसा प्रययौ तस्य मानिनः ॥ १५५ ॥
यदृच्छयागतैः सोऽथ विमुक्तः काष्ठभारिकः ।
लज्जितः स्वगृहं यातो जीवत्यद्यापि दुर्भगः ॥ १५६ ॥
इति बज्रसारकथा ॥ ६॥
इत्येवं योषितां देव ज्ञायते केन चेष्टितम् ।
गोमुखेनेति कथिते मरुभूतिरभाषत ।। १५७ ।।
राजा सिंहबलाभिख्यो वीरोऽभूद्दक्षिणापथे ।
भार्या कल्याणवत्वाख्या तस्य प्रियतमाभवत् ।। १५८ ॥
सं कदाचिन्जितो भूपैः समरे संग्रहारिभिः ।
गूढं सभार्यः प्रययौ स्वसुरावसथोन्मुखः ।। १५९ ॥
स व्रजन्मालवपुरं वने त्रस्तां निजप्रियाम् ।
दृष्ट्वा जघान खड्गेन दस्युशालकुञ्जरान् ॥ १६० ॥
श्वशुरस्य गृहे प्राप्य तत्र विन्यस्य तां प्रियाम् ।
गजानीकाभिधानस्य सुहृदः प्रययौ गृहान् ॥ १६१ ॥
तेन संपूजितो राज्ञा जेतुं सिंहबलो रिपून् ।
जगामादाय तदत्तां गजवाजिबरूथिनीम् ।। १३२ ॥
पितुर्गृहेऽपि तद्धार्या दृष्ट्वा वातायनान्नरम् ।
आनिनाय रहो दूत्या मन्मथेनाकुलीकृता ॥ १६३ ।।


एतरकोष्ठान्तर्गतपाठः ख-पुस्तके त्रुटितः.