पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५२
काव्यमाला ।

इत्येवं पापशीलानां स्त्रीणां कैयिते गतिः ।
उक्ते हरिशिखेनेति गोमुखस्तमभाषत ॥ १३९ ॥
इति देवदासाख्यायिका ॥ ५॥
अस्यामेवाभवत्पुर्या वत्सराजस्य सेवकः ।
विक्रान्तो वनसारख्यस्तेजखी सुन्दराकृतिः ॥ १४० ॥
प्रिया नामाभवत्तस्य भार्या हरिणलोचना ।
तया सह निनायासौ कालं संभोगलालसः ॥ १४१॥
मगधावासिना पित्रा सा कदाचिन्निमन्त्रिता ।
तगृहे सुचिरं तस्थौ स्खैरिणी चपलाशया ॥ १४२ ॥
वज्रसारोऽथ कालेन शुश्राव सुचिराद्रहः ।
बदार्या संगतान्येन पुरुषेणेति दुःखितः ॥ १४३ ॥
स गत्वा श्वशुरावासं तामाहूय खवल्लभाम् ।
आगच्छन्स्वगृहं प्राप. काननं पथि निर्जनम् ॥ १४ ॥
तन्न तामीर्ण्ययाक्रान्तः पप्रच्छाकोपकम्पितः ।
अनायें किं त्वया पापं कृतं जनकसद्मनि ।। १४५ ।।
श्रुता मयान्यसता त्वमित्याकर्ण्य चकार सा ।
मौनेनैवाभ्युपगम स्तोकानतविलोचना ॥ १४६ ॥
वज्रसारस्ततः क्रुद्धस्तां खङ्गेन समुद्यतः ।
हन्तुं तत्कालसंरम्भवेगाकृष्टतदंशुकः ॥ १४७ ॥
स्वर्णाजकलिकागौरं गात्रं तस्या निरम्बरम् ।
विलोक्य विपुलश्रोण्याः साभिलाषों बभूव सः ॥ १४८
विनयव्रतशीलासु पुंसां साध्वीषु नो तथा ।
यथा निःसत्त्वमनसा दुःशीलास्वधिका रतिः ॥ १४९ ॥
स रन्तुमुद्यतो यावत्तावत्सा तमभाषत ।
न हि स्पृशामि ते गात्र सिध्यैव क्रोधशालिनः ।। १६० ।।
वि त्वयाई समाकृष्ट कृला कोषानिरस्वराः ।