पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६. शक्तियशसि-देवदासाख्यायिका ।
५५१
वृहत्कथामञ्जरी ।

शक्तियससि-देवदासाख्यायिका बृहत्कथामञ्जरी

खजनैर्वार्यमाणापि तेनैव सहसा चिताम् ।
आरुन तूणे तत्याज प्रियान्प्राणानकम्पित्ता ॥ १९ ॥
इत्येवं गहनं स्त्रीणां ज्ञायते केन चेष्टितम् ।
गण्यते केन सर्पाणां करेण रदनावली ॥ १२७ ॥
            इति स्त्रीवृत्ताख्यायिका ।।४।।
उत्ते तपन्तकेनेति ततो हरिशिखोऽनवीत् ।
एवमेव स्त्रियः कृतास्तुषकेशविपरिव ॥ १२८ ।।
देवदासाभिधानस्य वाराणस्या कुटुम्धिनः ।
बभूव तरुणी भार्या दुःशीला नाम रूपिणी ॥ ११९ ॥
कदाचित्करदानाय पल्यौ रूद्धे नृपालये !
सा गूढकामिना भेजे निःशकं सुरतं निशि ॥ १३० ।।
प्रत्यहं तोषयन्ती ते नानाभोजनपानकैः ।
मा भूयाद्वन्धमोक्षों में भर्तरित्याशशेस सा ॥ १३१ ।।
ततः कालेन मुक्तोऽसौ राज्ञा स्वगृहमागतः ।
हृष्टो दुःखितया सद्यः कृतकानन्दया तया ॥ १३२ ।।
गृहीत्वाशु तमुत्सङ्गे सा प्रणम्यावचीत्पतिम् ।
नाथ खमे मयाथैव दृष्टोऽस्यालिङ्गितस्तथा ।। १३३ ॥
इत्युक्त्वा प्रददौ तस्मै भोजनं बहुलासवम् ।
सोऽपि भुक्ता बहुक्षीवो निन्द्रां भेजे रतिश्रमात् ।। १३४ ।।
ऊर्ध्ववेश्मस्थितं सान्य संज्ञयाहूय वल्लभम् ।
भतार घातयामास दारकस्यैव पश्यतः ॥ १३ ॥
तस्मिन्प्रयाते चुक्रोश चौरैरभिहतो असौ ।
ततः ससंभ्रमाः सर्वे चान्धवास्तूर्णमाययुः ॥ १३६ ॥
देवदासं हतं दृष्ट्वा तदाता शोकविलः ।
विललापाश्रुललितं चेष्टमानो महीतले ॥ १३७ ।।
स्वभार्यया हतं ज्ञात्वा बालकस्य गिरा ततः ।
तां च तत्कामुकं च गाजघ्नुरन्विष्य बान्धवाः ॥ १३८ ॥