पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५०
काव्यमाला ।

दत्त्वा बहुगुणं हेम क्षमापतिर्विससर्ज ताम् ॥ ११३ ॥
अथानन्तगुणो मन्त्री विहस्य नृपमब्रवीत् ।
एतदथै पुरा देव सा भवन्तमसेवत ॥ ११४ ॥
दृशान्यत्र गिरान्यत्र चेतसान्यत्र कृत्रिमम् ।
प्रेम संदर्शयन्त्येव कुशला वेशयोषितः ।। ११५ ।।
इति मन्त्रिवचः श्रुत्वा भूपालो विस्मयाकुलः ।
एवमेतदिति प्राह तन्मतिं प्रशशंस च ॥ ११६ ।।
गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।
कुटिलं गणयामास गणिकावृत्तमद्भुतम् ॥ ११७ ॥
            इति वेश्याख्यायिका ॥ ३ ॥
तपन्तकस्ततः प्राह विचित्रं स्त्रीविचेष्टितम् ।
सोऽपि सर्वगतो धाता न परिच्छेत्तुमीश्वरः ॥ ११८ ॥
अद्यापि नैव विज्ञाताः कैश्चित्तत्वेन योषितः ।
आसेव्यमानाः सततं संसारगतयो यथा ॥ ११९ ॥
कौशाम्ब्यां बलवाख्यो वणिगासीन्महाधनः ।
चन्द्रश्री म तस्याभूद्भार्या हरिणलोचना ।। १२० ॥
कदाचिद्यौवनोन्मत्ता सा हर्देशिखरस्थिता ।
नरं शीलवर नाम ददर्श रुचिरं तदा ॥ १२१ ॥
खसख्या त समानाय्य दूत्या प्रच्छन्नकामिनीं ।
सिषेचे चौर्यलुरतं प्रत्यहं सा सुमध्यमा ॥ १२२ ।।
सतत रममाणायाः खैरं तेन विलासिना ।
एका निशेव सहसा तस्या मासत्रयी ययौ ॥ १२३ ।।
अत्रान्तरे जगामाशु कौमारश्च पतिवरात् ।
पञ्चतां बान्धववधूकृतकोलाहले गृहे ॥ १.२४ ॥
तत्क्षणं सा रविमुख भुक्त्वोपपतिना सह ।
सभोत्य मर्जग्राह मृतस्य चरण शुचा ॥ १२५ ॥


सखीगृहे तमानाश्य दूत्या स्व.