पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तिवशसि-वेश्याख्यायिका
५४९
बृहत्कथामारी।

१६. शक्तिवशसि-वेश्याख्यायिका ।] बृहत्कथामञ्जरी। तस्मिन्रणे मानभङ्गशोकासंत्यक्तजीविताम् ॥ १०० ॥ ततो दुःखाकुलं दृष्ट्वा क्षिप्रं श्रुत्वा च तत्कथाम् । प्रगल्भललना स्वैरं नृपं कुमुदिकावदत् ॥ १०१ ।। राज्ञो न शोभते शोकस्तव दोर्दर्पशालिनः । पराक्रमी हि वीराणां मानभङ्गे प्रतिक्रिया ॥ १०२ ॥ सन्त्येव मे सहस्राणि मत्तवारणवाजिनाम् । हेमश्चैतैः कृतोद्योगो जहि शत्रून्धनुर्धर ।। १०३ ।। इति तद्वचसा राजा हविषेव हुताशनः । स्फूर्जत्प्रतापः प्रययौ परांस्तु तुरगद्विपैः ।। १०४।। बलिना सुहृदा सार्धं राज्ञा धवलकीर्तिना । गत्वा जघान ताञ्शत्रून्सानुगानुग्रविक्रमः ॥ १०५ ॥ श्रीमान्विक्रमसेनोऽथ राज्यं प्राप्य निजं पुनः । वराङ्गनानां विदधे प्रधानान्तःपुरे स्त्रियम् ॥ १०६॥ ततः सा प्राह भूपालं कृतज्ञ शृणु देव मे । संकल्पकल्पविटपी सर्वदैव प्रवर्तसे ॥ १०७॥ शत्रवो विनिताः सर्वे प्राप्ता श्रीर्यशसा सह । त्वया धैर्यसहायेन प्रणयिप्रियकारिणा ॥ १०८ ॥ अद्य चेत्करुणा चित्ते तवास्मिन्प्रेमलेशके । तन्मे वितर भूपाल सतताभीप्सितं वरम् ।। १०९ ॥ उज्जयिन्यां नरेन्द्रेण बद्धो मे हृदयप्रियः । द्विजन्मा श्रीधरो नाम स बलान्मुच्यतां त्वया ॥ ११० ॥ तदर्थमेव राजेन्द्र सेवितोऽसि मया चिरम् ! इति श्रुत्वा महीपालस्तथेत्याह सविस्मयः ॥ १११॥ ततः स विपुलानीको विजित्योज्जयिनीपतिम् । मोक्षयित्वा द्विजसुतं पुनः स्वपुरमाययौ । ११२॥ प्रहृष्टां संगतां तेन चिराद्यूना द्विजन्मना ।

१ 'र्दण्ड' ख.


'दैण्ड ख.