पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४८
काव्यमाला ।

काव्यमाला। आसाद्य सुन्दरीं चैव रागिणीं धनगौरवात् । शनैरुज्जयिनीं प्राप्य गणिकाया निवेशनम् । रम्यं कुमुदिकाख्यायाः सोऽविशन्मन्त्रिणा सह ॥ ८८॥ तं राजलक्षणोपेतं सिंहस्कन्धं महाभुजम् । सिषेवे सा महीपालं प्रेमबन्धैः सविभ्रमैः ।। ८९ ॥ स राजा द्रविणं तस्या गृहादादाय भूरिदः । याचकेभ्यो ददौ नित्यं निजवद्विपुलाशयः ॥ ९० ॥ अत्यन्तरागिणीं मत्वा नृपतिस्तां सविस्मयः । मन्त्रिणं प्राह पश्येमां मदेकशरणामिति ॥ ९१ ॥ (अमात्यः प्राह मा राजन्वेश्यासु प्रत्ययं कृथाः । दृक्संविभागमप्येता नैव कुर्वन्त्यकारणम् ॥ ९२ ।। इति) श्रुत्वा नृपश्चक्रे परीक्षायै मृगीदृशः । मिथ्यैवातुरमात्मानं कृतकत्यक्तजीवितम् ॥ ९३ ॥ सोऽथ कूटमृतस्तेन मन्त्रिणा कृतसंविदा । नीतः श्मशानं हा राजन्निति तारप्रलापिना ॥ ९४॥ ततः सा गणिका दुःखात्कल्पिते प्रवरेऽनले । कण्ठे गृहीत्वा तं कान्तं त्यक्तुमात्मानमुद्ययौ ॥ ९५ ॥ अत्रोत्तस्थौ नरपतिः संजातप्रमदाकुलः । तो गाढरागिणीं ज्ञात्वा तं निनिन्द च मन्त्रिणम् ॥ ९६ ॥ संजाताधिकविश्रम्भं सेवमानं घटस्तनी । कान्तां क्ष्मापालतिलकं बभाषे मन्त्रिपुंगवः ॥ ९७॥ (दृष्ट्वानुमरणात्तस्यास्त्वदैकशरणा मतिः । तथापि देव जानेऽहं कूटमेतद्विचेष्टितम् ॥ ९८ ॥ इति मन्त्रिवरो राजा श्रद्दधे नैव सस्मितः) । संजातप्रत्ययो रागः कस्य वाचा निवर्तते ॥ ९९ ॥ अत्रान्तरे स भूपालः शुश्राव महिषीं निजाम् ।

१-२ एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः


एतिकोष्टान्तर्गत पाठः ख-पुस्तके त्रुटितः