पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-वेश्याख्यायिका ।
५४७
बृहत्कथामञ्जरी ।

१६. शक्तियशसि-वेश्याख्यायिका ।] बृहत्कथामञ्जरी । बहूपायैरसंपूर्णैः किं धनैः क्लेशचिन्तितैः ॥ ७५ ॥ इति संचिन्त्य सा मात्रा शनैः प्रियमयाचत । मर्कदं तं च न ददौ निजोत्सङ्गगतं वणिक् ॥ ७६ ॥ प्रीत्या विपुलनिर्बन्धात्सुन्दर्या प्रार्थितश्चिरम् । ददौ कोटिशतेनास्यै रूपकष्ठीविनं कपिम् ॥ ७७ ।। तत्सर्वस्वं समादाय क्रयविक्रयसंचितम् । वणिङ्जपुरं प्रायात्ततो वैश्रवणोपमः ।। ७८ ॥ अथाज्ञया पितुः श्रीमान्परिणीय कुलोचितम् । कलां गुणवतीं नाम विललास कलानिधिः ॥ ७९ ॥ कुट्टिन्या याच्यमानोऽपि स चिरात्क्षीणरूपः । मर्कटो न ददौ किंचिदस्थितं दीयते कुतः ॥ ८० ॥ स सान्वितोऽपि बहुशः कशाभिश्चाहतो मुहुः । महाधनव्ययरुषा ताडितश्च महात्मना ।। ८१ ॥ निर्जीवितः कृतस्ताभ्यामालो सर्कटपोतकः । इत्यालजालैर्गणिका वञ्चयन्ते वञ्चयन्ति च ॥ ८२ ॥ इति राजसुतः श्रुत्वा कथितं मरुभूतिना । बभूव गणिकासङ्गसंकल्पशिथिलादरः ॥ ८३ ॥ इत्यालजालाख्यायिका ॥ २ ॥ अत्रैव गोमुखः प्राह प्रस्तावसदृशीं कथाम् । राजा विक्रमसिंहाख्यः प्रतिष्ठानपुरेऽभवत् ।। ८४ ॥ बभूव शशिलेखाख्या प्रिया तस्य सुलोचना । अनन्तगुणनामा च सचिवो धीमतां वरः ।। ८५ ।। स कदाचिन्महीपालो बलिभिः पञ्चभिर्नृपैः । निरुद्धनगरो मानी स्वयं युद्धाय निर्ययौ ।। ८६ ॥ स तैः समरभङ्गाद्यैर्विजितो युधि शत्रुभिः । सहानन्तगुणेनैव छन्नो देशान्तरं ययौ ।। ८७ ॥

१. 'कन्यां गुणश्रियं ना' ख


१. कन्यां गुणश्रियं नाख,