पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४६
काव्यमाला ।

५४६ काव्यमाला। श्रुत्वा प्रतिनिवृत्तस्तां सुहृद्भिस्तूर्णमुद्धृताम् । कण्ठे गृहीत्वा सोत्कण्ठं स रुरोद वणिक्सुतः ॥ ६३ ॥ ततस्तत्रैव तां कान्तां सेवमानः कृशोदरीम् अनल्पेनैव कालेन निःशेषविभवोऽभवत् ॥ ६४ ॥ चिरात्प्रतिगृहं प्रायात्स्वबाहुस्वस्तिकांशुकः । कृशो विच्छायवदनस्तदाहूतोऽतिलज्जितः ॥ ६५ ॥ ततस्तज्जनकः कोपाद्यमजिह्वामुपेत्य ताम् । उवाच बत मत्पुत्रस्त्वयासौ शिक्षितः कलाः ॥ ६६ ॥ वञ्चितः काञ्चनपुरे कुट्टिन्या प्रीतमायया । विनष्टाः पञ्च कोट्यो मे शिक्षामूल्यं प्रयच्छ मे ॥ ६७॥ इति श्रुत्वा वणिग्वाक्यं पृष्ट्वा वृत्तं च तत्सुतम् । यमजिह्वावदत्पुत्र पुनर्गच्छ धनाप्तये ॥ ६८ ॥ एको जालप्रयोगोऽस्ति सत्यं मोहात्स विस्मृतः । तत्प्रत्यक्षं गृहाणेदमित्युक्त्वास्मै ददौ कपिम् ॥ ६९ ॥ अनेन तद्दशगुणं तथा भक्षितमाप्स्यसि । धनमस्य प्रभावश्च प्रत्यक्षं परिदृश्यताम् ॥ ७० ॥ इत्युक्त्वा रूप्यकशतं मर्कटायैव सा ददौ । निगीर्य स ततः प्रायाद्यावद्यो यः समीहिते ॥ ७१ ॥ आलं नाम तमादाय मर्कटं प्रत्ययाद्वणिक् । बहुलद्रविणापूर्णः पुनर्हेमपुरं ययौ ॥ ७२ ।। आसाद्य सुन्दरीं तत्र रागिणीं धनगौरवात् पुनर्महोत्सवं चक्रे तद्गृहे रतिलालसः ॥ ७३ ।। निगीर्णरूपकं तस्यै तं मर्कटमदर्शयत् । उद्गीर्य वक्रादसकृत्प्रददौ रूपकानि यः ॥ ७४ ॥ दृष्टां तं सहिता मात्रा सुन्दरी समचिन्तयत् । अहो निधानरुषोऽयं चिन्तामणिनिभः कपिः ।