पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-आलजालाख्यायिका ।
५४५
वृहत्कथामञ्जरी।

१६. शक्तियशसि-आलजालाख्यायिका ।] वृहत्कथामञ्जरी। प्रणनाम वणिक्पुत्रस्तां वलीनालिताङ्गिकाम् । कामिसर्वस्वसंहारसंख्यारेखाङ्कितामिव ।। ५० ।। तस्य त्यागप्रधानैः सा विपुलैर्गुणसंस्तवैः । जग्राह हृदयं तूर्णं सुहृदां च यथोचितः ।। ५१ ॥ ततो नीते विजनतां तस्मिन्कीडनमण्डपे । स लीलारसिको भेजे सुन्दर्याः सुरतोत्सवम् ॥ ५२ ॥ वैदग्ध्यमौग्ध्यसंदिग्धै रसारम्भैश्च विभ्रमैः । सद्भावभावितैर्भावैः स विवेश तदाशयम् ॥ ५३ ॥ ततः प्रभाते सानन्दौ गाढालिङ्गननिःसहौ । चक्रतुस्तौ समुत्थाय शृङ्गारोचितमाह्निकम् ॥ ५४ ॥ इत्थं प्रतिदिनं श्रीमान्स तयाराधितः शनैः । हेमरत्नाम्बराश्वादि तस्यै कोटिसमं ददौ ॥ ५५ ॥ स किंचिच्छेषसर्वस्वः कालेन सुहृदो गिरा। पित्रा लेखेन चाज्ञप्तो द्वीपं गन्तुं समुद्ययौ ॥ ५६॥ ततः कृतकबाष्पाम्बुप्लावितोच्चकुचस्थली । आश्लिष्टानेन मूढेन सव्यथेन मुहुर्मुहुः ।। ५७ ॥ पाणिपङ्कजविन्यस्तकपोलकलिताकृतिः। आश्वास्यमाना बहुशो मात्राकृतकसंचयैः ॥ ५८ ॥ सा प्रस्थितं तमवदच्छेपार्थहरणोद्यता । त्वां विना नैव जीवाभीत्युक्त्वाभूद्गुम्फिताधरा ॥ ५९ ॥ आकृष्टः प्रेमपाशेन तया भीत्या पितुश्च सः। दोलाविलोलहृदयः प्रत्तस्थे भृशदुःखितः । ६० ।। ततः प्रविदधे कूपे कुट्टिनी रज्जुजालकम् । विसृज्य गूढं पुरुषान्सुतां तत्रैव चाक्षिपत् ।। ६१ ॥ हा हा त्वद्विरहायासनिःसहा सहसात्यजत् । कूपे क्षिप्ता च सुन्दर्या चुक्रोशेत्यथ कृट्टिनी ॥ ६२ ॥