पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४४
काव्यमाला ।

काव्यमाला। कलाकलापकुशलो विद्यासु च कृतश्रमः । पित्रा महाधनेनासौ श्रीरक्षार्थं समर्पितः ॥ ३७ ।। कुट्टिन्यै यमजिह्वायै वेश्यावञ्चनशिक्षणे । पुत्रप्रीत्या ददौ तस्यै शिक्षामूल्यं वणिग्वरः ॥ ३८ ॥ अशिक्षितेऽस्मिन्द्विगुणं गृहीष्यामीति संविदा । शिष्यतां प्रतिपन्नं तं सा गृहीत्वा वणिक्सुतम् ॥ ३९ ॥ संवत्सरेण विदधे वेश्यावञ्चनकोविदम् । ततः कदाचित्स युवा विसृष्टो द्रविणार्जने ॥ ४० ॥ पित्रा जलनिधेस्तीरे स्थितं हेमपुरं ययौ । पञ्चकोटी: समादाय रूप्याणां सचिवैर्वृतः ॥ ४१ ॥ प्रविश्य तत्पुरं प्राप देवायतनमुत्तमम् । ददर्श तत्र नृत्यन्तीं हरिणायतलोचनाम् ॥ ४२ ॥ तरुणीं सुन्दरीं नाम गणिकां रतिजीविनीम् । प्रदाय सुहृदा तस्यै ताम्बूलं मन्मथाकुलः ॥ ४३ ॥ धन्याहमिति वादिन्या गृहं तस्या विवेश सः । महार्हभूषणे तत्र कर्पूरागुरुधूपिते ॥ ४४ ॥ पुष्पोपहासरुचिरे बद्धपट्टवितानके । शय्यागृहे हिमस्वच्छन्यस्तचीनोत्तरच्छदे ॥ ४५ ॥ उपविष्टः समायातां लतां वाताकुलामि(ब । सोऽपश्यत्सुन्दरी हृष्टामग्राम्यहितमण्डनाम् ॥ ४६ ।। तस्यां समुपविष्टायां प्रवृत्ते पानकोत्सवे)। यथेष्टवादो मित्राणां निर्मर्यादमवर्तत ॥ ४७ ॥ ततो मकरदंष्ट्राख्यां सुन्दर्या जननीं शनैः । स्वयं गृहीतताम्बूला हर्षपूर्णा समाययौ ॥ ४८ ॥ संशुष्कविकटाकारां जरतीपूतनामिव । रक्तक्षयकरीं चौरां पिशाचीमिव मञ्चकाम् ॥ ४९ ॥

१ एतत्कोष्टान्तर्गतपाठः ख पुस्तके त्रुटितः


भारततिराह व पुस्तके वाटतः