पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-आलजालाख्यायिका 1]
५४३
बृहत्कथामञ्जरी ।

१६. शक्तियशसि-आलजालाख्यायिका ।] बृहत्कथामञ्जरी । इत्येवं क्षीणभाग्यानामयोग्यानां यमादिनाम् । दृष्टनष्टा भवन्त्येव विद्युत्तुल्या विभूतयः ॥ २५ ॥ इति भद्घाटाख्यायिका ॥ १ ॥ इति वत्सेश्वरः श्रुत्वा सामात्यो दयितासखः । क्षणं स्मितसुधाधौतकपोलफलकोऽभवत् ॥ २६ ॥ ततो मध्यं समारूढे व्योम्नः कमलिनीप्रिये । वत्सराजो नृपशतैः सहोत्थाय सभातलात् ॥ २७ ॥ स्नावार्चयित्वा श्रीकण्ठं भुक्त्वान्तःपुरमभ्यगात् । नरवाहनदत्तोऽपि निशि शय्यागृहं ययौ ॥ २८ ॥ वयस्यैः सहितस्तत्र नर्मकेलिकश्रान्तरे। बहिः स्थितानां शुश्राव गीतं हरिणचक्षुपाम् ॥ २६ ।। वाराङ्गनानां गीतेन संजातपुलकं ततः । मरुभूति समालोक्य हसन्प्राह तपन्तकः ।। ३० ।। देव वेश्याङ्गनागीतध्वनिना पक्ष्य ते सुहृत् । आकृष्यमाणहृदयः कुरङ्ग इव लक्ष्यते ॥ ३१ ॥ श्रुत्वेति तद्वचः प्राह मरुभूतिः स्मिताननः । मृषा तपन्तकेनोक्तं जानेऽहं वैशिकीं स्थितिन् ॥ ३२ ॥ क्रूराणां क्षणरक्तानामवसाने तमःस्पृशाम् । संध्यानामिव वेश्यानां गुणिसङ्गकथैव का ॥ ३३ ॥ चपलाः क्षिप्ररुचयस्तूर्णं स्वस्तपयोधराः । निरम्बरदशा वान्ति पर्यन्ते वारयोपितः ।। ३४ ॥ दर्शनेष्वेव सुखदा वेश्या वेशोज्ज्वलश्रियः । भोगवैरस्यकारिण्यः काठिन्यकटुकास्ततः । श्रूयतां गणिकावृत्तं विचित्रं कथयाम्यहम् ॥ ३५ ॥ नगरे चित्रकूटाख्ये रत्नधर्माभवद्वणिक् । श्रीमानीशानधर्माख्यस्तस्याभूत्तनयः प्रियः ।। ३६ ॥

१ 'कुदिला ख.


'कुदिला ख.