पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४२
काव्यमाला ।

१४२ काव्यमाला। दिव्यमाल्याम्बरधरं तत्र यक्षचतुष्टयम् । ददर्श विगतस्तत्र प्राहुस्ते तमथादरात् ॥ १३ ॥ अरे चतुररूप त्वं मनुष्यः परिदृश्यसे । निर्जनेऽस्मिन्वने भद्र परिचर्यां कुरुष्व नः । (भोजनं तावदधुना देहे नानारसोचितम् ॥ १४ ॥ असुद्राद्भद्र(?)घटकाद्यदिष्टं तदवाप्यते । इति तद्चसा तूर्णं घटकात्तत्प्रदर्शितात्) ॥ १५ ॥ यथोदितं समुद्धृत्य तेभ्यो भोगान्दरान्ददौ । तदाज्ञया स्वयं प्राप यथेच्छमशनं ततः ।। १६ ।। दिव्यं विलेपनं मालां शयनं च घटोद्धृतम् । तेभ्यो भुक्तोत्तरं दत्त्वा स परं विस्मयं ययौ ॥ १७ ॥ इत्थं तत्सेवया नित्यं कंचित्कालं निनाय सः । कालेन तुष्टास्ते यक्षास्तमेवास्मै ददुर्घटम् ॥ १८ ॥ नमोऽस्तु तस्यै सेवायै सर्वसिद्धिभुवा यया । यक्षा अपि वशं यान्ति दुर्लक्षा विषमाशया ॥ १९ ॥ स भद्रघटमादाय भारिकः स्वगृहं ययौ । चिन्तामणिप्रभात्तस्मात्परामृद्धिमवाप्तवान् ।। २० ।। ततस्तदुद्धृतैर्भोगैः सुहृद्बन्धुजनैर्वृतः । महोत्सवं स विदधे सदा मधुमदाकुलः ॥ २१ ॥ विभूतिकारणं पृष्टः कौतुकात्स्वजनैरथ । हर्षाद्भद्रघटस्कन्धे कृत्वा क्षीबो ननर्त सः ॥ २२ ॥ मददोषात्पपातासौ सशब्दं वसुधातले । तस्मिन्निपतिते मत्ते ययौ शकलतां घटः ।। २३ ।। भग्ने मनोरथैः सार्धं घटे यक्षान्तिकं गते । स्वप्नवदूञ्चितः प्राप दशां स्वामेव भारिकः ॥ २४ ॥

१.'ताशङ्कस्ते च बाहुस्तमम्बात्' ख. २. एतत्कोष्ठान्तर्गतपाठः ख-पुस्तके त्रुटितः


११. "ताशङ्कस्ते च बाहुस्तमम्बात' ख. २. एतरकोष्ठान्तर्गतपाठः ख-पुस्तके

!