पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-मघाख्यायिका ।)
५४१
ब्रुहत्कथामज्जरी)

१६. शक्तियशसि-भद्रघटाख्यायिका ।] वृहत्कथामञ्जरी । शक्तियशोलम्बकः । अनङ्गीकृतकामाय नमो वामार्धधारिणे । शिवायाश्चर्यरूपाय निष्कलाय कलामृते ॥ १ ॥ ततः कदाचिदास्थानस्थितं वत्सनरेश्वरम् । वणिग्व्यजिज्ञपत्प्रहः प्रतीहारेण सूचितः ॥ २ ॥ देवाभवद्दुर्गतो मे दासो वसुधराभिधः । मयाद्य तस्य शिखरे कापि संपद्विलोकिता ॥ ३ ॥ मया सकौतुकं पृष्टः प्राह मद्यमदाकुलः । प्राप्तो मया नृपद्वारादनर्ध्यो रत्नकङ्कणः ॥ ४ ॥ रत्नत्रयवतस्तस्मादुपाद्येको मणिर्मया । दत्तो रूपकलक्षेण वणिजा विजनस्थिते ॥५॥ इति तद्वचनं श्रुत्वा मयान्विष्टो वणिक्स्वयम् हिरण्यगुप्तो धनवान्विपुलक्रयविक्रयः ॥ ६ ॥ वणिजा रत्नदत्तेन श्रुत्वेत्यावेदितं नृपः । तं विसृज्य प्रतीहारसंदिष्टावानिनाय तौ ॥ ७ ॥ ताभ्यां कङ्कणमासाद्य रत्नमुत्पाटितं च तौ । कृपया वत्सभूपेन मूर्खाविति न दण्डितौ ॥ ८ ॥ ततो नर्मसुहृत्प्राह हासशीलो वसन्तकः । अहो न पुण्यहीनेन द्वारितोऽनेन करणः ॥ ९ ॥ दैवाद्वा कर्मयोगाद्वा लक्ष्मीः प्राप्तापि गोचरम् । प्रमादादल्पबुद्धीनां सहसैव विनश्यति ॥ १० ॥ वराको विप्रलब्धोऽत्र कटकेन सुदुर्गतः । स्वप्नवन्मन्दभाग्योऽसौ तत्रैव श्रूयतामिति ॥ ११ ॥ भारिकः शुभदत्ताख्यः पुरे पाटलिपुत्रके । काष्ठान्याहर्तुमगमद्वनं विपुलपादपम् ॥ १२ ॥

१. विपुल्ले रत्नयुक्तेन कटकेन सुदुमैते' ख.


१. विपुल्ले रत्नयुक्न कटकेन सुदुमैते. ख.