पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४०
काव्यमाला ।

काव्यमाला। स वाजिहृदयज्ञेन बाहुकेनाश्ववाहिना । ध्यात्वायोध्याधिपं प्राप्तं नलं सूतमशङ्कत ॥ ३६६ ॥ ऋतुपर्णप्रदिष्टं च प्राप्याक्षहृदयं नलः । नागांशुकेन तत्याज बाहुकस्तां विरूपताम् ॥ ३६७ ॥ कर्कोटविषदग्धोऽथ तच्छरीराद्विनिर्गतः । कलिर्विभीतकतरुं विवेश भयविह्वलः ॥ ३६८ ॥ ततः स्वरूपसुभगं नलं पद्मदलेक्षणम् । दमयन्ती समासाद्य हृष्टा निर्वृतिमाययौ ।। ३६९ ॥ नलोऽपि तत्पुरं गत्वा सानुगो वल्लभासखः । द्यूतेन पुष्करं जित्वा निजं राज्यमवाप्तवान् ॥ ३७० ।। इति वैदर्भतनया दयितं प्राप सुन्दरी। त्वमप्येवं महीपालं द्विजेन्द्रं पतिमाप्स्यसि ॥ ३७१ ।। इत्यन्तर्नलाख्यायिका ॥ १२ ॥ इति विप्रवचः श्रुत्वा भेजे बन्धुमती धृतिम् । कालेन तत्पतिस्तस्य पितरौ च समाययुः ॥ ३७२ ॥ प्रियां बन्धुमतीं प्राप्य राज्यं च स जनप्रियः । वरादनन्तनागस्य सहस्राथुरभूद्द्विजः ।। ३७३ ॥ इति बन्धुमत्याख्यायिका ॥ १३ ॥ इति प्रियासखः श्रुत्वा कथितं मरुभूतिना । सुहृत्केलिकलालोलस्तुतोष नरवाहनः ॥ ३७४ ॥ अथ सचिवकथाभिः कामिनीकेलिसक्तो गुरुचरणसपर्याकल्पितोत्तंसशोभः । रिपुकुवलयवहिश्चन्द्रचूडाङ्घ्रिसेवा- विकसदमलसत्त्वो राजपुत्रो बभूव ॥ ३७५ ॥ इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यामलंकारवती

नाम पञ्चदशो लम्बकः ।