पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।।
५३९
वृहत्कथामञ्जरी।

१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।] वृहत्कथामञ्जरी। ५६९ ह्रस्वोऽविटङ्कवदनः सोऽभवन्नृपशेखरः । ऋतुपर्णस्य नगरीमयोध्यां प्राप्य दुःखितः ।। ३५३ ॥ प्राप्तनागांशुकस्तस्थौ सूदसारथ्यकर्मणि । दमयन्ती प्रबुद्धापि प्राणनाथविजाकृता॥ ३५४ ॥ विललापातिकरुणं दृषदामपि दारुणम् । क्वासि मे हृदयाधीश फुल्लपद्मदलेक्षण ।। ३५५ ॥ तां दुष्टागरेणाशु ग्रस्तां चा कोशतीं मुहुः । तामाकर्ण्ययतो व्याधो हत्वा दुष्टं मुमोच ताम् ।। ३५६ ॥ ततः कामातुरो भूतकोपाद्भस्म चकार तम् । इति क्षामाक्षरं वाला शोचन्ती सा ययौ शनैः ।। ३५७ ।। कालेन वैदर्भपुरीं पितुः प्राप्य सुमध्यमा। एकवेणीव्रता तस्थौ नलसंगमवाञ्छया ॥ ३५८ ॥ सा ततः ग्राहिणोद्विप्रान्विचेतुं निषधाधिपम् । पृथिवीं ते च तद्गाथां गायन्तो बभ्रमुश्चिरम् ।। ३५९ ।। ऋतुपर्णपुरे धीमानेको विप्रश्वरन्मुहुः । जगौ विगुणयंस्तत्र नलस्याद्भुतचेष्टितम् ॥ ३६० ॥ मनोरथमपि च्छित्वा वाससोऽर्धं गतो ह्यसि । प्राणेश्वर प्रियां भार्यां क्व नु त्यक्त्वा विमोहिताम् ।। ३६१ ॥ द्विजस्येत्यथ सारय्यच्छन्नस्तुररामन्दिरम् । श्रुत्वैव विकटाकारः सास्त्रोऽभूद्बाहुकाभिधः ॥ ३६२ ।। सोऽब्रवीद्दैवदग्धानां दुष्कर्महतचेतसाम् । निकारं करुणापूर्णाः सहन्ते सरलाशयाः ॥ ३६३ ॥ बाहुकस्येति वचनं श्रुत्वा साश्रुदृशो वचः । अयोध्यां ब्राह्मणो गत्वा दमयन्त्यै न्यवेदयत् ।। ३६४ ।। सापि स्वयंवरव्याजादृनुपर्णं महीभुजम् । एकेनैव निनायाह्वा लङ्घितानेकयोजनम् ॥ ३६५ ॥