पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-लोहजङ्घाख्यायिका ।।
५५
वृहत्कथामञ्जरी

नो वक्ति द्विज संतापे देवताहमिति स्थिता।
कथंचिज्जननी बक्ति सा पटान्तरिताकृतिः ॥ ११५ ॥
एवं प्रतिनिशं तस्यां संगते देवविग्रहे ।
यत्नान्मक्रदंष्ट्रा तां यत्रैकान्ते व्यलोकयत् ।। ११६ ॥
ततः प्रणम्य तनयां रूपिणीं सा व्यजिज्ञपत् ।
सशरीरा दिवं गन्तुं ………. तेनाहमर्थये ||११७ ॥
इति मातुर्गिरा प्राह सा प्रियं विष्णुविग्रहम् ।
माता से त्वप्रसादेन स्वर्गं गन्तुं समीहते ॥ ११८ ॥
तच्छुत्त्वा केशवाकारस्तथेत्युक्त्वा दिदेश ताम् ।
लिप्तार्धा पञ्चचूला च प्रातः कार्येत्यनारदात् ॥ ११९ ॥
तदादेशादथ कृता कुट्टिनी पञ्चचूलिका
सिन्दूरसिप्तकैकुचा मसीन्यस्तत्रिपुण्ड्रिका ॥ १२० ॥
एकादश्यां संनिधिर्मे माथुरेऽस्मिन्सुरालये
उक्त्वेति नग्ना सहसा निनाय खगवाहनम् ॥ १२१ ॥
ततस्तां तोरणस्तम्भे, निधायैकादशीव्रते ।
उवाच निशि देवाने संगैतान्ब्राह्मणांल्लघु ॥ १.२२ ॥
मारी पतिष्यति क्षिप्रमद्य वो भीषणाकृतिः ।
रक्षा विधीयतां काचिदित्युक्त्वा लक्षता ययौ ।। १२३ ॥
आकाशभाषितं श्रुत्वा ते द्विजास्त्रासविह्वलाः ।
शान्तिखस्तिकमन्नाङ्कस्तोत्रैश्चक्रुर्महारवम् ॥ १२४ ॥
कुट्टिन्यपि चिरन्यस्ता तत्र शीतानिलार्दिता ।
हा हा पतामीति भयाद्विरराव खरखरम् ॥ १२५ ॥
तच्छुत्वा ब्राह्मणा भीता मा पतेत्यार्तवादिनः ।
मारि मारि नमस्तुभ्यं त्वं त्राणमिति चुक्रुशुः ॥ १२६ ॥
साब्रवीन्निपताम्येषा कम्पमाना-पुनः पुनः ।
मा मा पतेति चात्यन्तभीताः प्राहुर्द्विजातयः ॥ १२७ ।।


१. निषिद्धजनसंलापा ख... २. “च ख. ३. स्थि ख. ४. सर्वे