पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला ।

गूढं मकरदंष्ट्राथ राजपुत्रं स्वमन्दिरे
निधान निर्धनं कुद्धा निरास सपदि द्विजम् ।। १०२ ॥
स निरस्तोऽर्थचन्द्रेश तारित्तो लगुडैर्भृशम्श
क्षिप्तश्च कर्दमे प्रावादटवीं सविताविव ११३ ।।
रागावसानसंतापदुःखदैन्यभ्रमाकुलः ।
छायार्थी शुष्करिणः प्रविवेश कलेवरम् ॥ १०४ ॥
अरण्ये जम्बुकत्यक्ते कीटनिष्कुषितान्तरे ।
स निद्रामायौ तस्मिन्नन्ध्रवातगतागतैः ॥ १०६ ॥
अत्रान्तरे समुत्तस्थो मेघस्तापिच्छसच्छविः ।
यदृष्टिपूरैः ककुभो बभूवुर्जलसंकुलाः ।। १०६ ।।
महौघेन हृतः सोऽथ सरिद्वारिगतो गजः ।
समुद्रमाससादाशु तस्मालिङ्गितो मुहुः ॥ १०७ ॥
ताध्यवंशस्ततः पक्षी समादायामिपाया ।
भीतरतत्याज लङ्कायां दृष्टा त निर्गतं नरम् ।। १०८ ॥
निःसृतोऽ गजाविषः शनैः प्राप विभीषणम् ।
अवाप्यातिथिसत्कार तत्र राघवगौरवात् ॥ १०९ ॥
पृष्ठो विभीषणेनार्थं प्राहाह मथुराश्रयः ।
विसृष्टी विष्णुना साक्षागनाथै भवदन्तिकम् ॥ ११०॥
बिभीषणोऽपि तच्छ्रुत्वा विष्णोदेयमुपायनम् ।
शङ्खचक्रगदानमित्युक्लाले ददौ विभुः ॥ १११।।
तदजियेव सोवनीवाहन प्राप्य पक्षिणम् ।
रत्नानि च महाहाणि प्रययौ मथुरा क्षणात् ॥ ११२ ।।
तत्र दिव्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।
शङ्कचक्राङ्कितो रात्रौ रूपिण्या संगतः पुनः ॥ ११३ है।
रूपिणी विना साक्षात्कामिताहमिति स्फुटम् ।
उवाच लक्ष्मीसौभाग्यमदात्तरलमानसा ॥ ११ ॥


३ च तस्मात च.४

नीति मियोमरणशा