पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।]
५३७
बृहत्कथामञ्जरी ।

१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।] बृहत्कथामञ्जरी । पापः प्रयातो नभसा दिव्यस्त्रीसङ्गसिद्धिदम् अद्य द्वादशभिर्लब्धः सोऽयं संवत्सरैर्मया ॥ ३२७ ॥ निधनार्होऽपि न हतः सिद्धयोऽपि हृतास्तु ताः । इत्युक्त्वा सरसो मध्ये दिव्यमाणिक्यमन्दिरम् ।। ३२८॥ सहैवामरकान्ताभ्यां स विवेश नरेश्वरः । इति बन्धुमती श्रुत्वा चित्रमुक्तं द्विजन्मना ।। ३२९ ।। बबन्ध धैर्यं धर्मस्या सती दयितसंगमे । कदाचिदपरोऽभ्येत्य तां द्विजः सत्रशालिकाम् ॥ ३३० ।। भुक्त्वा विज्ञातवृत्तान्तः प्राह बन्धुमतीं कशाम् । निषधेषु नलो नाम भूपालो ललिताकृतिः ॥ ३३१ ।। अभद्गुणगणोद्यानविकाशकुसुमाकरः । मृगयारसिकः सोऽथ कदाचित्कनकप्रभाम् ।। ३३२ ॥ बबन्ध हंसांस्ते चाहुर्मुञ्चास्मांस्त्वं महीपते । सुता विदर्भराजस्य भीमस्यास्ति मुमध्यमा ॥ ३३३ ।। दमयन्तीति विख्याता वयं तत्केलिसारसाः। ते वयं भवता मुक्ताः करिष्यामः प्रियं तव ।। ३३४ ॥ भविष्यसि तृतीयेन तन्मुखाम्भोजषट्पदः । इति श्रुत्वैव तत्याज हंसान्व्याप्तो मनोभुवा ।। ३३५ ।। श्रुतेनापीप्सितं वस्तु कस्य धैर्य न कर्षति । ते गत्वा दमयन्त्यै तं कथयन्तो न्यवेदयत् ॥ ३३६ ॥ सौभाग्यमिव साकारं प्रत्यक्षमिय मन्मथम् । शनकैर्विरहक्षामौ तौ गुणाकर्णनान्मिथः ।। ३३७ ।। दिनैर्बभूवतुः प्रौढशरताकाण्डपाण्डुरौ । अथ राजसुता ध्यात्वा नलसंगमवाञ्छया ।। ३३८ ॥ नृपेभ्यः प्राहिणोद्दूतान्पितुर्वाक्यान्स्वयंवरे । समागतेषु भूपेषु लोकपालाः समाययुः ॥ ३३९ ॥

१ 'सोद्विप्रो इंसात्प्राप्तमनोमवस्' ख. ३. 'तमन्त्र' ख. ३ 'णश्रचणा' ख


"सोद्विमो इंसात्माप्तमनोमवस्' ख. ३. तमनख...गाणा'