पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३६
काव्यमाला ।

काव्यमाला। लक्ष्मीलताकुठारो हि गुरुशापः सुदुःसहः । चक्रस्य वणिजः पूर्वं पितुरादेशखण्डनात् ॥ ३१४ ॥ ज्वालाकुलं मूर्ध्नि चक्रं पपातात्यन्तदुःसहम् । पितरौ सेवमानस्य धर्मव्याधस्य कोऽप्यभूत् ॥ ३१५ ॥ ज्ञानप्रकाशो येनास्य शिष्यतां मुनयो ययुः । इति पित्रा समादिष्टः स ययौ मातुरन्तिकम् ॥ ३१६ ॥ याते तस्मिन्वियोगार्ता बन्धुमत्यभवत्ततः । सा दुःखिता मातृगिरा सत्रागारमकारयत् ॥ ३१७ ॥ नानादेशगतानेकद्विजविश्रान्तिपादपम् । ततः संगमदत्ताख्यो द्विजन्मा तीर्थशालिनीम् ॥ ३१८ ॥ भ्रान्त्वा वसुमतीं लेभे स तत्र स्नानभोजनम् । बन्धुमत्या स पृष्टोऽथ वियोगे दुःखभेषजम् ॥ ३१९ ॥ उवाच पुण्ययोगेन निजं भर्तारमाप्स्यसि । स्वयमेव मयाश्चर्यं दृष्टं शृणु पतिव्रते ॥ ३२० ॥ भ्रान्त्वा निखिलतीर्थानि हिमशैलसरोवरे । उत्थितं दिव्यपुरुषं दिव्याभरणभूषितम् ॥ ३२१ ॥ अपश्यं दिव्यनारीभ्यो सेव्यमानं सरोवरात् । रममाणे ततस्तस्मिंस्तत्र लीलावतीसखे ॥ ३२२ ॥ केलिक्रान्ते क्षणं सुप्ते कोऽपि राजा समाययौ । स समभ्येत्य निद्रालोः खड्गं तस्यान्तिके स्थितम् ।। ३२३ ॥ गृहीत्वा तत्प्रभावेण तं जघान पदा ततः । तस्सिन्निरस्ते विभ्रष्टविद्ये निपतिते तटात् ॥ ३२४ ।। स राजा तद्वधूयुग्मं प्राप्य मामवदत्ततः । एष पाशुपताचार्यो मया सह पुरा व्यधात् ।। ३२५ ॥ पातालसिद्धिखड्गोऽयं दिव्यः प्राप्तस्ततो मया । छद्मना मम सुप्तस्य हृत्वा खड्गमिमं निशि ॥ ३२६।।