पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका 1]
५३५
बृहत्कथामलरी।

१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।] बृहत्कथामञ्जरी। ५३५ भर्तारं निशि शय्यायां तं दृष्ट्वा दुःखिताभवत् । सा पित्रे प्रेषयामास दूतं सोऽप्याययौ रुषा ।। ३०१ ॥ नपुंसकेन मत्कन्या दूषितेति रणोन्मुखः । भयात्तस्याथ जामाता मन्द्रेणाराध्य गुह्यकम् ॥ ३०२॥ अवाप्य पौरुषं लिङ्गं सिषेवे सुन्दरीं पुनः । त्वमप्यज्ञातशीलेऽस्मिन्मा कृथाः सादरं मनः ॥ ३०३ ॥ तामित्युक्त्वा समभ्येत्य पप्रच्छ ब्राह्मणं ततः । अध्यस्यां साभिलाषस्त्वं न वेति द्विज कथ्यताम् ॥ ३०४ ॥ सोऽब्रवीद्देवि मनसः स्वभावो अभिलाषिता । किं त्वहं त्वद्विवेकेन रक्ष्याम्यनुचितादिति ॥ ३०५ ॥ तच्छ्रुत्वा वरदा देवी तस्मै नीलोत्पलं ददौ । सर्वार्थसिद्धिमेतेन प्राप्स्यप्तीत्यभिधाय सा ॥ ३०६ ॥ तप्राप्य स व्रजन्प्रातर्गत्वा तारापुरं शनैः । हा कष्टमिति शुश्राव जनकोलाहलं महत् ।। ३०७ ॥ किमेतदिति पृष्टासौ पौरेभ्यः स्वामिनो महत् । अनन्तस्वामिनः सूनुर्दत्तको नुपमन्त्रिणः ॥ ३०८ ॥ सर्पेण दष्टः श्रुत्वेति तमपश्यन्द्यसुं ततः । नीलोत्पलप्रभावेण जीवयित्वा स तं क्षणात् ॥ ३०९ ।। कण्ठे जग्राह सोत्कण्ठं परिज्ञाय निजात्मजम् । ततो बन्धुमतीं नाम तनयां गुणशालिनीम् ॥ ३१०।। ददौ तारावलोकोऽस्मै राज्यार्धे च नरेश्वरः । प्राप्तराज्यं महीपालं चन्द्रस्वामी ततः सुतम् ।। ३११ ॥ तं रहः प्राह जननीं द्रष्टुमेहि निजां पुरीम् । सा हि दीर्घवियोगेन किं तु जीवति वा न वा ॥ ३१२ ॥ तामादाय पुनः पुत्र समेष्यावः क्षणादिति । तव संप्राप्तराज्यस्य गुरुभक्तिर्विभूषणम् ।। ३१३ ॥