पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३४
काव्यमाला ।

काव्यमाला- ततो यदृच्छयायातो वणिक्सार्थवराभिधः । निजं निनाय कृपया तौ गृहं श्रुततत्कथः ॥ २८८ ।। चन्द्रवत्या समं स्वस्त्रा महीपालोऽथ तद्गृहे । श्रुतिस्मृतिक्रियासक्तश्चिरं तस्थौ द्विजाग्रणीः ॥ २८९ ।। ततस्तारावलोकस्य नृपतेः सचिवो द्विजः । श्रीमाननन्तस्वामीति तं मित्रं प्राप सार्थपम् ।। २९० ॥ स तद्गृहे द्विजसुतं दृष्ट्वा कन्यां च विस्मितः । दत्तो सार्थवरेणैव प्रीतः पुत्रपदे व्यधात् ।। २९१ ।। अनन्तस्वामिनानीतौ तारापुरनिवासिनौ । तद्वधूभ्यां च यत्नेन सुताविति विवर्धितौ ॥ २९२ ॥ अस्मिन्नवसरे चन्द्रस्वामी शबरमन्दिरे । तुष्टाव भास्करं गाढनिगडाबन्धपीडितः ।। २९३ ॥ तत्स्तोत्रतुष्टो भगवान्स्वप्ने शवरमंशुमान् । आदिदेश कृषाविष्टो द्विजोऽयं त्यज्यतामिति ॥ २९४ ।। तदाज्ञया परित्यक्तरतेन सोऽथ सुताशया । चिन्तासंतप्तहृदयो बभ्राम निखिलां महीम् ।। २९५ ॥ सं पृच्छन्पथिकान्सर्वाञ्शुश्राव जलधेस्तटे। बालौ केनापि वणिजा प्राप्तावित्यस्फुटं पथि ॥ २९६ ।। समुद्रद्वीपविषयनगरग्रामगह्वरम् । स विविच्य शनैः प्राप क्षपायां निर्जनं वनम् ॥ २९७ ॥ ददर्श मातृकास्तत्र देवतायोगिनीगणैः । सेविताः कलिसंसक्ता नृत्यगीतरसाकुलाः ॥ २९८ ॥ तत्रैका योगिनी प्राह निजां दृष्ट्वानुयायिनीम् । निरीक्ष्यमाणां विप्रं सा साभिलाषं सविभ्रमाम् ॥ २९९ ॥ अयि किं त्वमदृष्टेऽसि विप्रेऽस्मिन्नभिलाषिणी ।

पुरा नपुंसकं प्राप सुन्दरी राजकन्यका ।। ३०० ।।