पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका ।
५३३
बृहत्कथामञ्जरी

१५. अलंकारवत्याम्-अन्तर्नलाख्यायिका |] बृहत्कथामञ्जरी ५३३ त्वयैव कृतसाहाय्यः पुरा वेतालसाधकः । वैद्याधरीमहं प्राप्तः श्रियमेतां महीपले ॥ २७६ ।। इतो गत्वा भगवत्तीमाराध्य हरवल्लभाम् । अचिरात्प्राप्स्यसि सतीं सामेव सुचिरात्प्रियाम् ॥ २७७ ॥ इत्युक्तस्तेन स शनैर्गत्वा विन्ध्यमहीधरम् । अतोषयद्भगवती तपसा शंकरप्रियाम् ॥ २७८ ।। मथैव रक्षिता पत्नी तव सा ससुता प्रिया । इत्युक्त्वा पार्वती तस्मै ददौ तां तनयं यथा ॥ २७९ ॥ प्रहृष्टो दवितां प्राप्य प्राप पुत्रं च भूपतिः । हिरण्यवर्णः स्वपुरं गत्वा चक्रे महोत्सवम् ।। २८० ।। इति हिरण्यवर्णाख्यायिका ॥ ११ ॥ गोमुखेनेति कथित्ते प्रहृष्टे नरवाहने । तत्स्पर्धाबन्धसंरब्धो मरुभूतिरमावत ॥ २८१ ।। चन्द्रस्वामीति विप्रोऽभून्नगरे कमलाभिधे । भार्या देवमती नाम तस्याभूदुचितव्रता ॥ २८२ ॥ महीपालाभिधं तस्यां स प्राप तनयं प्रियम् । अलंकारं निजकुले कन्यां चन्द्रवतीं तथा ॥ २८३ ।। कदाचिदथ दुर्भिक्षे भार्यामामध्य तां ययौ । श्वसुरावसथे न्यस्तं तं पुत्रं कन्यकां च ताम् ॥ २८४ ॥ पथि श्रीष्मोपसंतप्तं संप्राप्तो जीवनं वनम् । शुशोच दृष्ट्वा तृष्णार्तौ बालौ शुष्यन्मुखाम्बुजौ ।। २८५ ॥ निधाय तौ तथैकान्ते तदर्थं जलकाङ्क्षया । स व्रजञ्शबराधीशमपश्यद्दारुणाकृतिम् ॥ २८६ ।। तेन दुर्गोपहाराय नीते तस्मिन्निजालयम् । तौ बालकौ महाशोकवह्निसंतापमापतुः ।। २८७ ।।

१ 'षः' ख २ 'र्षा' ख