पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३२
काव्यमाला ।

काव्यमाला। कदाचिदथ दुःस्वप्नं विलोक्याकुलितो नृपः । कार्तिकेयवने देवं कुमारं समतोषयत् ॥ २६३ ॥ विघ्नादसम्यग्विहितां मतिं तस्य षडाननः । ज्ञात्वा प्रियवियोगस्ते भूयादिति शशाप तम् ।। २६४ ॥ नृपोऽपि शापदुःखं तद्विस्मृत्यः शनकैः प्रियाम् । कण्ठावलम्बिनीं कृत्वा धन्योऽस्मीति मुदं ययौ ॥ २६५ ॥ ततः कालेन सा गर्भदोहदा पाण्डुरच्छविः । बभूवासन्नचन्द्रेव लहरी दुग्धवारिधेः ॥ २६६ ॥ अथासूत सुतं कान्तं बालकं समवर्चसम् । चक्रवर्तिपदोदारलाञ्छनाकलिताकृतिम् ।। २६७ ।। दिनेषु बट्सु यातेषु ततो धर्षितदिक्तटाः । उद्यत्तरुजटालग्ना विकटा मरुतो ववुः ॥ २६८ ।। पांशुरूपान्धकारेण नद्धे भुवनमण्डले । प्रविश्य सूतिकावेश्म काली पिङ्गललोचना ॥ २६९ ।। दंष्ट्राविकटवदना तडित्तरलकुण्डला । भयंकरी कापि योषित्तं जहार शिशु बलात् ।। २७० ।। पुत्रस्नेहादनुययौ यातां तां च नृपप्रिया । सलिलान्तरनिर्मग्नां तामेवानुममज्ज ह ॥ २७१ ॥ राजापि तिमिरे शान्ते यातां क्वापि सपुत्रकाम् । ज्ञात्वा प्रियतमां शोकाद्भेजे शतगुणं तमः ॥ २७२ ॥ राजधानीं परित्यज्य हा प्रिये चित्तचन्द्रिके । क्व यातासीति विलपन्बभ्राम विपुलां महीम् ॥ २७३ ॥ स काननं समासाद्य कान्तं विद्याधरं पदम् । ददर्श तं च पप्रच्छ संतप्तः शोकभेषजम् ॥ २७४ ॥ स च विद्याधरः प्राह द्विजोऽहं तत्प्रतिग्रही । बन्धुदत्ताभिधो राजस्त्वद्गृहे कृतभोजनः ।। २७५ ॥

१ 'पत्नी' ख. २. 'कान्ता वालार्कसमवर्चसम्' ख. ३.'त्परिग्र' ख,


पनी ख. र. 'कान्ता वालासमवर्चसम् स. २. परिन ख,