पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९. अलंकारवत्याम्-हिरण्यवर्णाख्याधिका ।।
५३१
बृहत्कथामञ्जरी।

१९. अलंकारवत्याम्-हिरण्यवर्णाख्याधिका ।] बृहत्कथामञ्जरी। १५१ प्रसङ्गोऽर्थमुखश्चेति तस्यासन्सेवकास्त्रयः । तेषामवृत्तिक्षुण्णानां प्रययुः पञ्च वत्सराः ॥ २५१।। दारिद्र्यदुःखाद्राजानं सदा याचितुमुद्यतौ । प्रसजाख्येन कालोऽयं नेत्यन्यौ विनिवारितौ ॥ २५२ ॥ अत्रान्तरे तृपसुते बाले दैवाद्दिवं गते । प्रसङ्गोऽभ्येत्य शोकार्तं नरनाथं व्यजिज्ञपत् ।। २५३ ।। देव यातः सुविपुलः कालस्त्वत्पादसेवनम् । अस्माकं कर्मबन्धेन केनापि हतसंपदाम् ॥ २५४ ।। नृपाद्वर्षशतेनापि नैवास्मादस्ति नः फलम् । एतत्सुतो दास्यतीति बद्धोऽस्माभिर्मनोरथः ।। २५५ ॥ सोऽद्य बालस्तव सुतो नीतोऽस्मद्भाग्यसंक्षयात् । दैवेन त्वदनुज्ञाता गच्छामः स्वस्ति ते प्रभो ॥ २५६ ।। इति तद्वचनेनासौ वृद्धः शोकाकुलो नृपः । ददौ तेभ्यो बहुधनं पुत्रकीर्तनमोहितः ॥ २५७ ।। इत्यादि गोमुखेनोक्तं मरुभूतिविडम्बनम् । श्रुत्वा जहास मुदितो राजपुत्रः प्रियसखः ।। २५८ ।। इति लुब्धाख्यायिका ॥ १० ॥ पृष्टोऽलंकारवत्याख्या कथां चित्तविनोदिनीम् । गोमुखः सादरं प्राह तस्यां सचिवसंसदि ॥ २५९ ।। हिरण्यवर्ण इत्यासीद्वसुधाधिपशेखरः । यशस्वी काश्चनपुरे पञ्चबाण इवापरः ॥ २६० ॥ स तु चित्रपटाकारदर्शनाज्जातमन्मश्रास् । विदर्भराजतनयां लेभे मदनमञ्जरीम् ॥ २६१ ।। रममाणस्तया तत्र हरिणीहारिनेत्रया भेने चराकं त्रैलोक्यजयिनं रतिवल्लभम् ॥ २६२ ॥

१ 'सचिवास्त्र' ख. २.'यौ' ख. ३. 'नात्' ख.


"सचिनाख' ख...२..'यो-ख.३. नात् स..