पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३०
काव्यमाला ।

देवीवरात्प्राप भोगान्स संपूर्णमनोरथः ।
इत्येवं कालविहितं सर्वं भवति सिद्धये ॥ २४० ॥
इत्यन्तराख्यायिका ॥ ८॥
नायं जयस्य ते कालो गणकेनेति ते नृपाः ।
वारिता अपि युद्धाय राजानं चमरं ययुः ॥ ९४१ ॥
चरमोऽपि सुसंनद्धो धीरं नाम च भूपतिम् ।
पुरस्कृत्य महानीको निर्ययौ समरोन्मुखः ॥ २४२ ॥
निहतानेकसुभटान्विदारितहयद्विपान् ।
स तान्नरेन्द्रान्संग्रामे बबन्ध वलिताम्बरः ॥ २४३ ॥
विजयश्रियमासाद्य स्वपुरे विहितोत्सवः ।
तद्वधूपातिनो भूपान्स तांस्तत्याज सत्त्ववान् ॥ २४४ ।।
इत्युत्साहपरा धीराः समरे व्यवसायिनः ।
लभन्ते विजयं देव यान्ति वा त्रिदिवं हताः ।। २४५ ।।
इति चामराख्यायिका ॥९॥
गोमुखेनेति कथिते सुहृद्भिर्नरवाहनः ।
निरर्गलकथासक्तो ननन्द दैयितासखः ॥ २४६ ।।
ततो नमकथाबन्धे हसन्हरिशिखोऽब्रवीत् ।
मरुभूतिरयं देव साक्षाल्लोभः किमुच्यते ॥ २४७ ।।
वृत्तीं सांवत्सरीं योऽयं भृत्यानां मीलितेक्षणः ।
करोति पाठमौनानां मौनमश्ममयो यथा ॥ २४८ ॥
उक्ते हरिशिखेनेति गोमुखः प्राह सस्मितः ।
नर्महासविशालो हि योष्ठीष्वमृतनिर्झरः ॥ २४९ ॥
देव लुब्धा भवन्त्येव तथा च क्षितिपोऽभवत् ।
चिरदाता यथार्थेन नाम्नैव कथिताशयः ॥ २५० ॥


सभा ख नरवाहनः ख. ४. 'याचमानानां'