पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अन्तराख्यायिका
५२९
बृहत्कथामञ्जरी

१५. अलंकारवत्याम्-अन्तराख्यायिका ।] बृहत्कथामञ्जरी । कौतुकाख्ये पुरवरे राजा बहुसुवर्णकः । बभूव सर्वजनतासंकल्पसुरपादपः ।। २२८ ।। यशोधर्माभिधानस्तं कदाचिञ्चिरसेवकः । व्यजिज्ञपद्दुर्गतिर्मे क्ष्मापते वार्यतामिति ॥ २२९ ॥ पुनः पुनः प्रार्थ्यमानस्तेन राजा निरुत्तरः। दिवमालोक्य सुचिरादूचे सचिदसंसादि ।। २३० ॥ जानामि सेवकस्त्वं मे दीर्घकालमनन्यगः । दातुमिच्छामि ते सर्वं किं तु सूर्यो रुणद्धि माम् ॥ २३१ ॥ इति राज्ञो वचः श्रुत्वा मौनमूके समातले । यशोधर्मा विनिःश्वस्य विधिं मेने दिवाकरम् ॥ १३२ ॥ ततः कदाचित्स नृपं राहुग्रस्तेऽशुमालिनि । व्यजिज्ञपत्कुरुक्षेत्रे हेमरत्नाम्बरप्रदम् ॥ २३३ ।। त्वत्प्रसादनिषेद्धा मे देवोऽयं भास्करो रिपुः । राहुणा शत्रुणाक्रान्तो देह्यस्मिन्मे क्षणे धनम् ॥ २३४ ।। इति नर्मवता तेन विज्ञप्तः स महीपतिः । प्रहस्य सानुगस्तस्मै तुष्टो भूरि धनं ददौ ।। २३५ ॥ महाव्ययोऽयं सुचिरान्न प्राप्य तद्रणक्षयम् । विविग्रहृदयः प्रायात्तपसे विन्ध्यवासिनीम् ॥ २३६ ॥ सा तुष्टा प्राह तं भोगान्धनं या सभवाप्नुहि । इति देव्या समुद्दिष्टो द्रष्टुं प्रायाद्वणिक्सुतौ ।। २३७ ॥ एकं स संचयपरं ददर्श कृपणाशयस् । भोज्यलेशापराधेन प्राप्तः प्राप्तविसूचिकाम् ।। २३८ ।। धीरं निःसंचयं चान्यं सदा संभोगतत्परम् । स तौ दृष्ट्वा गिरिसुतां ययाचे भोगसंपदम् ॥ २३९ ।।

१ 'विभुः' ख. २, 'घे' ख. ३. 'नपव्यग्रोऽथ' ख.


'विभुःख. २, "घे ख. ३. ' नयमोऽथ ख.