पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२८
काव्यमाला ।

६२८ काव्यमाला। नीडे महाद्रुमस्याधस्तामेव सणिसूत्रिकाम् लम्बमानां विलोक्याराद्गृध्रन्यस्तामवाप्तवान् ।। २१६ ॥ पृथ्वीमूल्यानि रत्नानि तस्मादिव खगालयात् । स प्राप्य स्वगृहं प्रायाद्वणिग्वैश्रवणोपमः ॥ २१७ ॥ इति लाभक्षयाभ्यासाद्धन्यानामेव पुण्यतः । उदयान्ता भवन्त्येवमुक्त्वैव विरराम सः ॥ २१८ ।। इति समुद्रशूराख्यायिका ॥ ७ ॥ अलंकारवतीवक्रपद्मचुम्बनषट्पदः । ततः सुहृद्धृतः कालं निनाय नरवाहनः ॥ २१९ ॥ अथ तं प्राह सेनानीस्तवासौ बालसेवकः । राजा विक्रमतुङ्गाख्यो देव प्राप्तो जयश्रियम् ।। २२० ॥ तव भ्रूभङ्गमात्रेण हेलया तव सैनिकैः । समरे विजितास्तस्य रिपवः पञ्च पार्थिवाः ॥ २२१॥ ते च विक्रमतुङ्गेन स्वयं बद्धा महारणे । त्वत्पादमूलमानीता मानिनो वसुधाधिपाः ॥ २२२ ॥ श्रुत्वेति राजतनये प्रहृष्टे प्राह गोमुखः । राजा विक्रमसेनस्ते सिद्धये देवसेवकः ॥ २२३ ॥ अत्रान्तरे वीरवृत्तं श्रूयतां कथयाम्यहम् बभूव हास्तिनपुरे चमरो नाम भूपतिः ।। २२४ ।। स गोत्रशत्रुस्तस्यासीत्प्रतापो नाम पार्थिवः । सहान्यैर्वसुधाधीशैः स तं जेतुं समुद्ययौ ॥ २२५ ॥ विजयारम्भवार्तायां प्रतापेन महीभुजा । पृष्टस्तं प्राह दैवज्ञो जयस्तव न दृश्यते ॥ २२६ ॥ न कालोऽयं तवोद्योगे मा प्रमादे मनः कृथाः । सुकाले विहितं सर्वमयत्नेनैव सिद्ध्यति ॥ २२७ ।।

१ 'तुङ्ग' ख २ 'सुभठो' ख ३ 'यात्रायां' ख


हम जान सभको ख.३० यात्रायो' ख,