पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-समुद्रशूराख्यायिका
५२७
बृहत्कथामचरी।

१५. अलंकारवत्याम्-समुद्रशूराख्यायिका बृहत्कथामचरी। १२७ ततो हरिशिखः प्राह भद्रस्य वणिजो गृहे । कौशाम्बीवासिनो देव वर्तते विपुलोत्सवः ॥ २०३ ।। लब्धो निजगृहोपान्तान्निधिस्तेन महाधनः । कृपया वत्सराजेन न चात्तस्तन्निवेदितः ॥ २०४।। तत्प्रसादाद्गृहं तस्य वणिजः प्रस्तुतोत्सवे । सुतारस्तूर्यशब्दोऽयं रुणद्धि निखिलां पुरीम् ।। २०५ ।। उक्ते हरिशिखेनेति गोमुखः प्राह सस्मितः । अस्त्येवमेव धन्यानां विधानां वान्छितपदः ॥२०६ ॥ पुरा समुद्रशूरेण वणिजा द्वीपयामिना । भग्ने प्रवहणे प्राप्तो जलोच्छूनः शवोऽ)म्बुधौ ॥ २०७॥ तेनैवोत्तीर्य जलधेर्हेमद्वीपमवाप्य सः । शवदस्त्रां जलासक्तां मणिमालामवाप्तवान् ॥२०८।। तां कण्ठसूत्रिकां पूर्वं स चौरो राजमन्दिरात् । हृत्वा जलौघान्निःसृत्य ममज्ज जलधौ भयात् ॥ २०९ ॥ तां व्यसोस्तस्य चोरस्य स गृहीत्वा पुरान्तरम् । प्रविश्य पादपतले श्रान्तो निद्रां समाययौ ॥२१०॥ मणिमालां परिज्ञाय स राजपुरुषैर्बलात् । नृपतेरन्तरं नीतस्तत्कोपाकुलिताकृतेः ।। २११ ।। अत्रान्तरे रत्नमालां गृध्रस्तामहरच्छलात् । (हृतेयमिति भूपालपुरः प्रतिसृता जनैः ।। २१२ ।। आदिष्टे वणिजे राज्ञा वधे शब्दोऽभवाद्दिवि । वणिक्समुद्रशूरोऽयं निर्दोष इति कर्मतः) ।। २१३ ॥ ततः संपूजितो राज्ञा शतैस्तद्वाक्यगौग्यात् । तीर्त्वा प्रवहणेनाब्धि वेलातटमवाप्तवान् ॥ २१४ ॥ तत्रास्य शबरा: सर्वं जगृहुर्धनसंचयम् । स हृतद्रविणो गत्वा निषसाद तरोरधः॥ २१५ ॥ १ 'नौ' ख २ 'द्व' ख

३. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः


३. एतत्कोष्टान्तर्गतपाठःख-पुस्तके त्रुटितः