पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२६
काव्यमाला ।

काव्यमाला। नीतो नारायणं द्रष्टुं श्वेतद्वीपं विहायसा तैस्तूर्णजातसौहार्दैः सोऽपश्यच्छेषशायिनम् ॥ १९७ ॥ श्रीपतिं पुण्डरीकाक्षं पद्मनाभमनामयम् । दृष्ट्वा प्रणम्य वरदं तुष्टाव नरवाहनः ।। १९८ ॥ ॐ जय अजय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभय महाविभव निरतिशय निरञ्जन निर्लेप निष्प्रपञ्च निरुपम निर्विकार निर्गुण लित्योदित विश्वेश्वर विश्वरूप विश्वा- श्रय विश्वसमुद्धरण शुद्ध सूक्ष्म ध्रुव शाश्वत शान्त सच्चित्वरूप परमान- न्दमन्दिर स्वेच्छाशक्तिव्यक्तीकृतनिजप्रसर लक्ष्मीलतावसन्तातय मधुवधूग- ण्डपाण्डिमप्रद असुरमहिषीभ्रमविराम अखण्डितप्रसादमण्डिताखण्डल कौ - स्तुभप्रभारचितकमलाकुचकुङ्कुमपत्रभङ्ग अपरिष्वङ्गसंगमाकुलीभूतस्वर्भानु- भामिनीलोकाब्जेन्दुकमलालाञ्छनलेखायितवसुधाधिराममहावराह हिर- ण्यकशिपुकाननप्रलयानिल वामनलीलासंपदवामनीकृतसुरैश्चर्य चरणनखम- युखायितस्वर्वाहिनीप्रवाह क्षत्रक्षपाधरोद्दीपितकुठारानल दशवदनवदनक- न्दुकविनोदानन्दित कालियकुलकमलिनीकुञ्जर रुक्मिणीकपोलदन्तपत्रीकृ - तपाञ्चजन्यप्रभामयूर विद्रुमदुमायमाणकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्माक- रतुरगमुखखलीनखणखणायमानसामवेदोद्गिरा इति स्तुत्वा हृषीकेशं तद्दत्ता दिव्ययोषितः । प्राप्य राजसुतः प्रायात्स दिव्यपुरुषालयम् ॥ १९९ । रूपसिद्धिमुखास्तेऽथ समुद्रद्वीपवासिनः । अपूजयन्देवपुत्राः स्वगृहे नरवाहनम् ॥ २०० ॥ ततस्तद्विहितोदारगतिः प्राप्य निजां पुरीम् । अलंकारवतीं भेजे दृष्टो विरहनिःसहः ।। २०१॥ इति नारायणदर्शनम् ॥ ६॥ ततः कदाचिदाकर्ण्य तूर्यशब्दं पुरान्तिके । किमेतदिति पप्रच्छ सचिवान्नरवाहनः ।। २०२ ॥