पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अलंकारवत्याम्-नारायणदर्शनम् ।)
५२५
बृहत्कथामञ्जरी ।

अलंकारवत्याम्-नारायणदर्शनम् ।] बृहत्कथामञ्जरी । निशम्य गोमुखेनेति कथितं नरवाहनः । निजं कार्पटिकं चक्रे क्षणेन क्षितिपोपमम् ॥ १८५ ।। ततः कदाचिदभ्यायात्सेवितुं नरवाहनम् । लम्बवाहुरिति ख्यातो विप्रः शस्त्रभृतां वरः ॥ १८६ ।। वितीर्णे राजपुत्रेण तस्मै प्रत्यहवेतने । जाम्बूनदशते प्राह गोमुखो हृष्टमानसः ॥ १८७ ।। एतद्विधाः प्रभुहितव्रतधीराः सुदुर्लभाः । येषां पुरुषरत्नानां पृथ्वीमूल्यं विडम्बना ॥ १८८ ।। पुरा विक्रमतुङ्गाख्यो राजा विरजसा वरः । द्विजं वीरवरं नाम सेवकं विदधे धनैः ।। १८९ ॥ श्रुत्वा निशि प्रलापिन्याः पृथ्व्याः स पृथिवीपतेः । पर्यन्तमानुषप्राप्तं वज्राहत इवाभवत् ।। १९० ॥ स तद्गिरा शिरः सूनोश्छित्वा सुश्रेयसे प्रभोः । देवीमतोषयद्येन शतायुरभवन्नृपः ।। १९१ ॥ ततो ररक्ष तं देवी स्वशिरश्छेत्तुमुद्यतम् । जीवयित्वास्य (सुचिरं प्रसादामृतनिर्झरैः ॥ १९२॥ इत्येवं स्वामिनां भृत्या भवन्त्यभ्युदयश्रिये । अयं द्विजवरो देव वीरो भृत्यस्तवोचितः ।। १९३ ।। इति वीरवराख्यायिका ॥५॥ गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः । ननन्द सचिवैः सार्धमलंकारवतीसखः ॥ १९४ ॥ ततः कदाचिन्मृगवारसिको नरवाहनः । पराक्रमं लब्धबाहोर्ददर्श हरयोधिनः ॥ १९५ ।। दिपिने सरसस्तीरे स्वप्रभाभरणैस्ततः । चतुर्भिर्दिव्यपुरुषैर्धन्यः प्राप समागमम् ।। १९६ ॥

१. 'वरप्रसादेन' ख, २. एतत्कोष्ठान्तर्गतपाठः ख-पुस्तके त्रुदितः


१. 'वरप्रसादेन' ख, २. एतत्कोष्ठान्तर्गतपादः ख-पुस्तके त्रुदिता,