पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२४
काव्यमाला ।

काव्यमाला मातुलुङ्गफलं प्राप्य सोऽपि राज्ञा समर्पितम् । अभिदध्यौ तदद्यापि नाहं लक्ष्मीनिरीक्षितः ॥ १७३ ।। इति चिन्तापरो गत्वा यदृच्छोपगताय सः। भक्तः कार्पटिकस्तस्य तत्फलं भिक्षवे ददौ ॥ १७४ ॥ राजा नन्दिरिति ख्यातः स भिक्षुस्तन्महीभुजे । हस्तोपायनमास्थाने मातुलुङ्गफलं ददौ ॥ १७५ ॥ राजापि रत्नसंपूर्णं तत्परिज्ञाय सस्मितः । (पुनः कार्पटिकायैव स तस्मै प्रददौ फलम् ॥ १७६ ।। राज्ञा दत्तं तदादाय दुःखितोऽसौ व्यचिन्तयत्) । अहो रत्नाकरजुषा मया प्राप्तः कपर्दकः ।। १७७ ॥ इति ध्यात्वा मयाख्यस्य तद्ददौ राजसेविनः । (वस्त्रयुग्मेन संतुष्टो मन्यमानोऽधिकं धनम् ॥ १७८ ॥ अभयोऽपि फलं गत्वा भूभुजे तन्न्यवेदयत् । भूयः कार्पटिकायैव प्रादात्तच्च फलं नृपः ॥ १७९ ।। तद्विलासवती नाम फलमादाय नर्तकी । मूल्येन तस्मादनयद्भूपालोपायनास्पदम्) ॥ १८० ॥ राजा पुनस्तदासाद्य सावेगं स्मितसुन्दरः । ते कार्पटिकमुद्दिश्य चिक्षेप मणिमत्फलम् ॥ १८१ ॥ वेगावपानस्फुटितफलोदरविनिर्गतैः । रत्नैरिन्द्रायुधच्छायैरतस्योत्सङ्गमपूर्यत ।। १८२ ॥ प्रक्षीणदुष्कृतो लक्षम्याः कटाक्षैरिव लक्षितः । तैर्महारत्ननिकरैः सोऽभवत्संपदा निधिः ॥ १८६ ।। इत्यनिस्तीर्णदुष्कर्मसंकटैः श्रीर्न लभ्यते । तवापि सेवको देव यन्नाद्यापि पदं श्रियः ॥ १८४ ।। इति कार्पटिकाख्यायिका ॥ ४ ॥

१ 'दन्दि' ख। २-३, एतत्कोष्ठान्तर्गतपाठ, ख-पुस्तके त्रुटितः


हिनिद सके। इतरकोधावतपात ख-पुस्तके अद्वितः