पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. अलंकारबत्यास-काटिकाख्यायिका ।
५२३
बृहत्कथामवरी ।

१६. अलंकारवत्याम्-कार्पटिकाख्यायिका । बृहत्कथामञ्जरी । कान्ता भूमिभुजा तेन विलासरसिकेन सा । सेविता सुचिरं प्रेम्णा कालेनासूत पुत्रकम् ॥ १६१ ।। सुतः समुद्रदत्ताख्यस्तस्याः सं शशिसुन्दरः । विद्याकलाकलितधीः कालेन प्राय यौवनम् ॥ १६२ ।। कन्यां कमलिनीं नामः राज्ञः समरवर्मणः स प्राप विभ्रममहीं कान्तः परिणयोत्सवे ॥ १६३ ॥ निर्जिताशेषवसुधं तं गुणोचितमात्मजम् । अभिषिच्य ततः प्रायाद्राजानङ्गप्रभासखः ।। १६४ ॥ तौ प्रयागे निराहारौ दृष्टा स्वमे महेश्वरम् । क्षीणशापौ प्रययतुर्निजं वैद्याधरं पदम् ॥ १६५ ॥ इत्यनङ्गप्रमाख्यायिका ॥ ३ ॥ गोमुखेनेति कथितं श्रुत्वा वत्लेश्वरात्मजः । जहास तस्या वृत्तान्तमलंकारवतीसखः ॥ १६६ ॥ कदाचिदथ तं प्राह राजपुत्रं सुहृद्युतम् । मरुभूतिः कृपाविष्टो दृष्ट्वा कार्पटिकं पुरः ।। १६७ ।। शीतवातातपसहो सदैव त्वत्परायणः । नाद्यापि परमां लक्ष्मीं प्राप्त इत्यद्भुतं महत् ।। १६८ ॥ प्राग्दत्तं भुञ्जते सर्वे कर्तुं वा कस्य कः क्षमः । तवापि यत्कार्पटिकः पदं नाद्यापि संपदाम् ॥ १६९ ॥ इत्युक्ते राजपुत्रस्य पुरतो मरुभूतिना। गोमुखः प्राह सदृशं श्रूयतामेवमत्र च ॥ १७० ॥ अभूतलक्षपुरे श्रीमान्प्लक्षदत्ताभिधो नृपः । लब्धदत्ताह्वयस्तस्य भक्तः कार्पटिकोऽभवत् ।। १७१ ॥ चिरसेवापरिक्लिष्टं तं विज्ञाय स पार्थिवः । गूढं रत्नैः समापूर्य फलं तस्मै ददौ स्वयम् ॥ १७२ ।।

१ 'श्रेष्ठ ख. २. 'दृ' ख. ३. 'ल्लक्षदन्ताभिधो' ख


'श्रेष्ठ स्त्र. २. 'दृ' ख. ३. 'लक्षदन्ताभियो' ख,