पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२२
काव्यमाला ।

काव्यमाला। आशिक्षयन्नृपादेशान्नाट्यं तां जातमन्मथाम् । चित्रं करणशिक्षां मे देहीत्यभिहितस्तया ॥ १४९ ॥ स तां स्वैरं शशिमुखीं भेजे सुरतकोविदः । सा गाढरागिणीं तेन सह प्रायादलक्षिता ।। १५० ।। क्व वा तिष्ठन्ति सुचिरं निम्नगा इव योषितः । नाट्याचार्यो निजं देशं तया सह समागमः ॥ १५१ ॥ प्राप्य लेभे रतिसुखं तद्विलासरसोचितम् । कदाचिदथ कालेन युवा द्यूतकृतादरः ॥ १५२ ॥ सुहृत्सुदर्शनो नाम तं नाट्याचार्यमाययौ । स तस्य केलिदूतेन धनं हृत्वा सुदर्शनः ॥ १५३ ॥ स्वयं कृताभ्युपगमां भेजेऽनङ्गप्रभां रहः । नाट्याचार्यं परित्यज्य निर्धनं विगतद्युतिम् ॥ १५४ ॥ द्यूतकारेण सहिता सा ललास धनस्तनी । कालेन धूतकारोऽपि चौरैर्निर्द्रविणः कृतः ।। १५५ ॥ त्यक्त्वा हिरण्यगुप्ताख्यमासाद्य वणिजं तदा । (बभूव प्रेमसर्वस्वं तस्य सा रतिलालसा) ॥ १५६ ॥ द्यूतकृत्तद्वियोगाग्निदग्धः स च धराधिपः । विरक्तौ संनिपातेन जग्मतुः परमं पदम् ।। १५७ ॥ वणिजः प्रेमसर्वस्वं कालेनाम्भोधिगामिनः । वातभग्ने प्रवहणे संप्राप्ता धीवरेण सा ॥ १५८ ॥ तेन सागरतीरेण चिरं दासेन कामिताम् । युवा विजयधर्माख्यस्तां प्राप कुलपुत्रकः ॥ १५९ ।। यदृच्छया गलो दृष्ट्वा तां सागरपुराधिपः । राजा सागरदत्ताख्यो रागिणीमभजत्ततः ॥ १६० ॥ १ 'सिजयकमन्मथः' ख, २ 'महाधनः' ख. ३. 'तां वरः' ख. ४. एतत्कोष्ठान्त- र्गतपाठः' ख पुस्तके त्रुटितः ५. 'नटाधि' ख ६ 'दासप्रवीरेण सेनादासेन

कावितहान' ख ७ 'वर्माख्यो' ख


सिजयकमन्मथः च, 'महाधना ख. ३. तां वरःख. ४. एतत्कोष्ठान्त-

ततपाव ख पुस्तके । बुटितः।। ५. निहाधि दासमवीरेण सेनादासेन. कावितहान ला पावभाज्या मा