पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अनङ्गप्रभाख्यायिका ]
५२१
बृहत्कथामञ्जरी

१५. अलंकारवत्याम्-अनङ्गप्रभाख्यायिका |] बृहत्कथामञ्जरी । तन्न्यस्तमानसा प्राप कामपि स्मरचिक्रियाम् । स्वयं कृताभ्युपगमां ततस्तां स महीपतिः) ॥ १३७ ॥ निनाय स्वपुरं हृष्टो धन्योऽस्मीति व्यचिन्तयत् । तस्य तत्केलिसक्तस्य तद्विभ्रमविकासिनः ।। १३८ ॥ कोऽप्यन्तःपुरसक्तेषु बभूव प्रचुरोत्सवः । जीवदत्तः प्रबुद्धोऽपि तामपश्यन्मनःप्रियाम् ।। १३९ ।। वने शुशोच सुचिरं मृगीभिः साश्रुवीक्षितः । ततो ग्रामं शनैदृष्ट्वा तस्या दुःखात्पतिव्रताम् ॥ १४० ॥ प्रियादत्ताभिधां दिव्यचक्षुषा लोकिताखिलाम् । शुश्राव दयितावृत्तं स तयैव निवेदितम् ॥ १४१ ॥ राज्ञा हरिवराख्येन सा नीतेति सविस्मयः । प्रणम्य दिव्यनेत्रां तां विरक्तः सोऽभवत्ततः ॥ १४२ ॥ रागानलेन दग्धानां वैराग्यं जायते कुतः । स विन्ध्यवासिनीं गत्वा तावत्तेपे तपस्ततः ॥ १४३ ॥ यावत्साक्षाद्भगवती तमुवाच कृताञ्जलिम् । गणस्त्वं मे विरूपाख्यः सहितोऽन्यैर्गणैस्त्रिभिः ॥ १४४ ॥ कन्याभिलाषी मुनिना शप्तो मर्त्यत्वमागतः । अधुना क्षीणशापस्त्वं ते च प्राप्ताः पदं मम ॥ १४५ ॥ इति देविवचः श्रुत्वा गणतां प्राप स द्विजः । साप्यनङ्गप्रभा तस्य राज्ञः प्रणयिनीपदम् ॥ १४६ ॥ संप्राप्य रागिणी विद्यां विसस्मार सुलोचना । ततो लब्धवराभिख्यो नाट्याचार्यो नरेश्वरम् ।। १४७ ॥ तत्त्यागिनं कलाभिज्ञो द्रष्टुमभ्याययौ युवा । संपूजितो भृशं राज्ञा चानङ्गप्रभया रहः ॥ १४८ ॥ १. 'सौधेषु' ख. २. 'श्रमी' ख. ३. 'यंवदामि' ख. ४. 'द्रागिणं' ख.

'तामनङ्गप्रभां' ख.


१. 'सौधेषु' ख. २. श्रमी ख. ३. 'यंवदामि ख. ४. द्वामिण ख.

'हामनप्रभा ख.