पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२०
काव्यमाला ।

काव्यमाला। दर्पदमन्यत तया तुल्यरूपान्स्वयंवरे । पितानङ्गप्रभां पुत्रीं शशाप क्रोधमूर्छितः ।। १२५ ॥ विरूपं मानुषी भूत्वा ब्राह्मणं पतिमाप्स्यसि । (ततोऽनुपुरुषासङ्गं बहुशश्च समेष्यसि) ॥ १२६ ॥ परदारापहारेण प्राग्जन्मनि स च द्विजः । त्वद्वियोगाग्निसंतप्तो भविष्यति मुहुर्मुहुः ॥ १२७ ।। जनकेनेति शप्तासौ भुवि राजसुताभवत् । प्राप्ताद्य स्वपुरं दिव्यं गच्छ प्रामुहि तां प्रियाम् ॥ १२८ ।। (इति श्रुत्वा प्रबुद्धोऽसौ खड्गं वीक्ष्य स्वहस्तगम् । तत्प्रभावोदितगतिर्ययौ व्योम्ना हिमाचलम् ॥ १२९ ॥ तत्र विद्याधराञ्जित्वा समरे तां तदात्मजाम् । प्रापानङ्गप्रभां मूर्तां प्रभामिव मनोभुवः ॥ १३० ।। तत्र विद्याधरपुरे स्थित्वा संभोगतत्परः । मनुष्यलोकं सोत्कण्ठो ययौ व्योम्ना तया सह ॥ १३१ ॥ ततः शिखरिपर्यन्तविपुले कटकस्थले । फुल्लचूतलताहूतविलोलालिकुलाकुले ॥ १३२ ॥ विजहार द्विजवरस्तया राजीवनेत्रया । तत्र लीलारतिश्रान्तः स निद्रामुद्रितेक्षणः ॥ १३३ ॥ सुष्वाप तालपवनैर्व्यजनैरिव वीजितः । अत्रान्तरे मृगरणक्रीडायै तां वनस्थलीम् ॥ १३४ ।। राजा हरिवरो नाम दाक्षिणात्यः समाययौ । स तां विद्याधरीं दृष्ट्वा जीवविद्यां मनोभुवः ॥ १३५ ॥ कम्पत्तरङ्गतां भेजे ज्योत्स्नामिव सरित्पतिः । (सापि तं वीक्ष्य राजानं रजनीराजसुन्दरम् ॥ १३६ ॥ १ 'मानाप्तं' ख २ 'प' ख. २-३. एतत्कोष्ठान्तर्गतपाठः क पुस्तके न दृश्यते. ४ 'शीतये' ख. ५. 'जीवितः' ख. ६ 'स' ख ७. 'म्योत्त' ख ८ ए-

तत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः


मानात व २ ख. २-३. एतत्कोष्ठान्तर्गतपाठः क पुस्तके न दृश्यते.

४ मा ब... ५. जीवितः ख. ५. म्योत तातोपान्तर्गत पावः ख-पुस्तके तुटि