पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१८
काव्यमाला ।

महावराह इत्यासीद्वीरः शूरपुरे नृपः ।
वराह इव विस्तीणी भुजेनोवाह यो भुवम् ॥ १०१ ॥
तस्यानङ्गवती नाम सुन्दरी तनयाभवत् !
तत्याज सायकान्मन्ये यत्कटाक्षाधरः स्मरः ।। १०२ ॥
शूरः वरूपो बलवान्भर्ता योग्यो ममेति सा।
निजोद्वाहविधौ चक्रे प्रतिज्ञा दृढनिश्चया ॥ १०३ ॥
तद्याचकेषु विमुखं यातेष्वखिलराजसुः ।
चत्वारो वीरपुरुषा दाक्षिणात्याः समाययुः ॥ १०४ ।।
ते तमेत्य महीपालं कन्यको तां ययाचिरे।
क्रमेण कर्म जातिं च निवेद्य मदनेरिताः ।। १०५ ।।
एकोऽब्रवीधुवा शूरो दानशूरो वराकृतिः ।
अहं पञ्चपुरो नाम मह्यं कन्या प्रदीयताम् ॥ १० ॥
अपरः प्राह वैश्योऽहं भाषाज्ञः सर्वपक्षिणाम् ।
उवाचान्यः क्षत्रियोऽहं वीरः खड्गधराभिधः ॥ १०७
चतुर्थोऽध्यवद्विषो जीवदत्तोऽहमग्रजः
मृतसंजीवनाभिज्ञो देवादिक तु दुराकृतिः ॥ १०८ ॥
इति तैरपिता पुत्री प्रहृष्टः पृथिवीपतिः ।
ईप्सितः कस्तवेत्साह सा च पृष्टा तमब्रवीत् ॥ १०९ ॥
-द्विजसूनुर्विरूपोऽयं वैश्यशूद्वौ च सेवको ।
अराजा क्षत्रियश्चायमित्युक्त्वा नाभ्यमन्यत ॥ ११० ॥
प्रतीहारगृहे राज्ञा ततस्ते विहिताश्रयाः ।
न्यबसन्यूजिताः किंचित्कालं परिणयाशयां ॥ १११ ॥
खितः कदाचिन्मृगयासक्तस्य वसुधापतेः ।
आदर्शयन्वने तस्य हत्वा सिंहान्पराक्रमम् ॥ ११२ ।।
तेषां शोचे समालोक्य सुता प्राह महीपतिः ।
जिक पत्रि नैतषां तुल्यं पश्यामि भूतले ॥ ११३ ॥


समजा व

४. भासानू ख.