पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११. अलंकारवत्याम्-अनङ्गप्रभाख्यायिका ]
५१७
बृहत्कथामखरी ।

यातेत्याकर्ण्य तं विप्रमानिनाय नृपात्मजः ॥ ८८ ॥
स पृष्टो ब्राह्मणः प्राह मर्तुमाहितनिश्चयः ।
देवैर्ना हन्मि दुःशीला स्त्रियं प्राणांस्त्यजामि वा ॥ १९ ॥
अथाशरीरिणी वाणी प्रोच्चचार नभस्तलात ।
इयं विद्याधरी शापारिपत्रोर्मत्यत्वमागता ॥९० ॥
तुषारशिखरे रम्ये पञ्चकूदाभिधे पुरे ।
अस्त्यशोकवरो नाम विद्याधरमहीपतिः ॥११॥
अशोकमाला तस्येयं तनया नेहभाजनम् ।
विद्याधरैयांच्यमाना विवाहं नाभ्यमन्यत ।। ९२ ॥
यदा तदा रुषा पित्रा शप्तेयं रूपमानिनी।
विरूपा मानुषी भूत्वा द्वेष्यं भर्तारमाप्स्यसि ॥ ९३ ॥
इति शासादियं बाला प्राप्ता तच्छासनं भुवि ।
शापोऽधुनासाः प्रक्षीणों बागित्युक्त्वा शशाप सा ।। ९.४ ॥
ततो मर्यशरीरं सा परित्यज्य स्खविद्यया ।
अशोकमाला प्रययौं व्योम्ना विद्याधराङ्गना ।। ९५ ॥
हठशर्मापि संस्मृत्य जाति स्मृत्वा विरूपताम् ।
वैद्याधरं वपुः प्राप्य मोवाच नरवाहनम् ॥ ९ ॥
अहं लम्बभुजाख्यस्य विद्याधरपतेः सुतः ।
युवा स्थूलभुजो नाम कन्यां प्राप्तां स्वयंवरे ॥ ९७ ॥
कान्तां सुरभिदत्ताख्यामनाहृत्य मरातुराम् ।
गुरुशापाविरूपत्वं प्राप्तोऽहं मर्त्यतां गतः ।। ९८ ।।
इत्युक्त्वा क्षीणशापोऽसौ द्विजः प्रायाद्विद्वायसा ।
प्रियं कलेवरं त्यक्त्वा जाव्यां तुहिनाचले ॥ ९९ ॥
लद्वीक्ष्य विसितं. प्राह गोमुखो नरवाहनम् ।
शृणु स्त्रीचरिताश्चर्यभत्रैव कथयाम्यहम् ॥ १० ॥


"शैलशिखरे ख.