पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१६
काव्यमाला ।

ततोऽदृश्यत लोलाक्षी पित्रा सह नभस्तलात् ।
अवतीर्णा खयं मात्रा भात्रा चाधिकभूषिताम् ।।
तां चन्द्रवदनां दृष्ट्वा सानुगो नरवाहनः ।
भेजे पीयूषसिक्तस्य छायाममरशाखिनः ॥ ७७ ।।
वत्सराजेन संयम्य तां सुता खेचरोत्तमः ।
नरवाहनदत्ताय दिव्येन विधिना ददौ ॥ ७८ ।।
विद्याधरेन्द्रतनयां तां प्राप्य हरिणेक्षणाम् ।
तद्धास सुन्दरपुरं प्रययौ पितुराज्ञया ॥ ७९ ॥
मन्दारवल्लीललिते स तत्र दयितासखः ।
सातुगः सुचिरं स्थित्वा कौशाम्बी पुनराययौ ।। ८० ॥
ततोऽभिनवसंभोगामवाप्यानन्ददीक्षितः ।
अलंकारवती कान्ता ललास नरवाहनः ॥ ८ ॥
कदाचिदथ पौरस्त्री काचिन्मुखरभूषणा ।
भीता सभार्य शरणं वत्सराजात्मजं ययौ ॥ ८२ ।।
परिसान्त्व्य शनैः पृष्टा तेन सा प्राह सुन्दरी ।
खत्रासकारणं तन्वी कम्पमाना- घनस्तनी ।। ८३ ॥
देवाहं अलसेनस्य तनया क्षत्रजन्मनः ।
अशोकमालात्रैलोक्यरक्षाहै परिरक्ष माम् ॥ ८४ ॥
शर्माभिधानेन पापमाश्रित्य पापिना ।
अनिच्छन्ती वृता देव कुरूपेण द्विजन्मना ॥८६॥
तेन नन्दितरूपेण परिणीता बलादहम्
कान्तेन संगतान्येन रूपलब्धा हि योषितः ।। ८६ ॥
ततो यहच्छयायाता पथि दृष्ट्वाथ मां रुषाः ।
आकृष्टखेगः सावेगमायतो मधोद्यतः ॥ ८७ ॥
तद्धीता शरणं देवीमलंकारवतीमहम् ।


पिता ख

२. 'थे' ख, ३. 'धेनाप्राणमा ख. ४. “लोभ्या द्विधोद्यमः' ज.