पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१४
काव्यमाला ।

इत्येवं राघवः कान्तावियोग धैर्यसागरः ।
सेहे क्षणं त्वमप्येवं सहस्व स्वप्रियागमे ॥५१॥
इति रामाख्यायिका ॥१॥
उक्त्वेति तस्यां यातायां व्योन्मादाय निजां सुताम्
नरवाहनदत्तोऽभूद्विरहध्याननिश्चलः ॥ १२ ॥
तं च श्लथमतिं दृष्ट्वा निःश्वसन्तं स्मरातुरम् ।
गोमुखः प्राह धैर्याब्धेः कोऽयं ते मतिविश्रमः ॥ १३ ॥
एकैव शर्वरी मध्ये स्थिता ते तत्समागमे ।
एवंविधां विक्रियां किं यातोऽस्यत्रैव मे शृणु ॥ ९४
पृथिवीरूप इत्यासीत्प्रतिष्ठानपुरे नृपः ।
अनङ्गतां स्मरो भेजे मेने यत्कान्तिनिर्जितः ।। ५६ ॥
स नानादेशसंचारचतुरैः सद्यभिक्षुभिः ।
शुश्राव वर्णितां कान्तों मुक्ताद्वीपपतेः सुताम् ॥ ५६ ।।
राज्ञो रूपधराख्यस्व पुत्रों रूपलताभिधाम् ।
श्रुत्वा वयाचे दूतेन सोऽथ दूरनिवासिनः ॥ १७ ॥
मिथश्चित्रपटाकारदर्शनाज्जातमन्मथम् ।
नृपः पुत्री च विज्ञाय रम्यं रूपधरोऽवदत् ।। ५८ ।।
दूतं मद्वचसा गत्वा राजानं तूर्णमानय
पृथिवी रूपमस्या मे स पुत्र्याः सदृशः पतिः ।। ५९
इति तेन समादिष्टो दूतः संकल्पशीघ्रगः ।
समुत्तीर्याम्बुधि प्राप्य प्रतिष्ठानपुरोत्तमम् ॥ ६ ॥
मुक्तापुराधिनाथेन दत्ता रूपलता सुता
खयमेहीति दूतस्तं क्षितिपालं व्यजिज्ञपत् ॥ ६१ ॥
ततः प्रतस्थे नृपतिर्गजवाजिस्थाकुलः ।
अब्धिाद्वीप परिणयश्रिये श्रीपतिसंनिमः ॥ १२॥
र अजन्नटवी प्राध्य शंबरीरणकर्कशान् ।
जाबन काणमालेच विद्वत्तानेकुञ्जरान् ॥ १३ ॥