पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६. अलंकारबत्याम्-समाख्यायिका ।
५१३
बृहत्कथामञ्जरी ।

सुग्रीवेण कृतज्ञेन रामं दृष्ट्वा मरातुरम् ।
दिक्षु सीतां समन्बेष्टुं विसृष्टे कपिमण्डले ॥ ३९ ॥
हनुमान्मारुतसुतो विलङ्घय मकराकरम् ।
सीता से तो समालोक्य दम्वा लक्षामनाकुलः ॥ ४ ॥
न्यवेदयत्प्रियावृत्तं रामाय हतराक्षसः ।
राघवोऽप्यम्बुधि बद्धा सेतुं प्राप्य रिपोः पुरीम् ॥ ४१ ॥
सानुगं रावणं हत्वा भेजे जनकनन्दिनीम् ।
अथायोध्या समभ्येत्य प्राप्य राज्यं सहानुजः ॥ ४२ ॥
मिथ्यापवाद सीतायाः शुश्राव रघुनन्दनः ।
तदाज्ञया लक्ष्मणरतां बने गर्भभरालसाम् ।
सत्याज साश्रुनयनो वाल्मीकेराश्रमान्तिके ॥ ४३ ॥
तां तत्र मुनयो दृष्ट्वा शोचन्ती लक्ष्मणे गते ।
ऊचुर्दिव्यदृशो ज्ञात्वा शुद्धचारित्रभूषणाम् ॥ ४४ ॥
टिट्टिभोऽब्धितटे जायों दृष्ट्वान्येन समागताम् ।
प्रतिश्रयार्थिना भर्तृधिया नियाजमानसाम् ॥ ४५ ॥
ईशिकाकुलस्त्यत्तुमुद्यतस्ती नभस्तलात् !
श्रुत्वा साध्वीति वचनं शीलेऽस्याः प्रत्ययं ययौं ॥ १६ ॥
तिरस्यामा चारित्रशुद्धया निर्मलतां मनः ।
इति प्रयाति तत्कोपं रामस्थाप्यात्मविश्वः ।। १७ ॥
इति ब्रुवाणे करुणाकुलिते मुनिभण्डले ।
वाल्मीकेराश्रमं प्राप्य सीतासूत सुतद्वयम् ॥ १८ ॥
तो तेन भुनिना तंत्र कृतराजोचितवतौ ।
सविद्यौ ययतुर्वाजिमेधे राम समास्थितम् ॥ ४२ ॥
पुन्नी कुशलवाभिख्यावुक्तौ वाल्मीकिना स्वयम् ।
तौ प्राप्य रामो दयितां विशुद्धामानिनाय ताम् ॥ ५० ॥


'धोख.३. क्षसंख.. ४. 'स्तामभाषत'ख. ५. "पुत्रौं' ख.