पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१२
काव्यमाला ।

कौशाम्बीविपिनोपान्तशिवालयमिमं शनै:
प्राप्ता दृष्ट्वा त्वया देवनिदिट्टयं तव प्रियाः ।। २६ ।।
स्वदिशागोचरायातां ज्ञात्वाहं विद्यया सुताम् ।
पुत्र तूर्णमिहायाता द्रष्टुं त्वां चिरकाशितम् ॥ २७ ॥
मद्भा पूर्वमादिष्टो भविता शुभलग्नतः ।
अनया तव पुत्र्या मे प्रातः परिणयोत्सवः ॥ २८ ॥
उक्त्वेति लज्जाचिनतं पुत्रीवदनपङ्कजम् ।
विलोकयन्ती संहृष्टा सा सती गन्तुमुद्ययौं ॥ २९ ॥
प्रस्थिता सा समालोक्य सहसा विरहाकुलम् ।
उत्कण्ठानिर्भरं प्राह सस्मिता नरवाहनम् ॥ ३० ॥
राजपुत्र क्षपामेकां सहस्वौत्सुक्यविक्रियाम् ।
समागमो मत्सुतायाः प्रातस्ते भवित्तानया ॥ ३१ ॥
खिग्धैविनोदय मनो दिनमेकं सुहृजनैः ।
सेहे संवत्सरं रामो जानकीविरहं पुरा ।। ३२ ।।
राज्ञो दशरथस्वासीदयोध्याधिपतेः सुतः ।
रामो गुणगणारामो विरामो वैरिसंपदाम् ॥ ३३ ॥
प्रेयस्या सीतया साधै लक्ष्मणेनानुजेन च ।
वन विवेश से वधूप्रेरितस्य पितुर्गिरा ॥ ३४ ॥
मारीचहेमहरिणाकारवञ्चितचेतसः ।
तत्र सीता बहारास्य भिक्षुवेषो दशाननः ॥ ३५ ॥
जानकीकरुणाक्रन्दकोषात्समरसंमुखम् ।
जटायुषं गृधराज हत्त्वा यातेऽथ रावणे ॥ ३६
विरहायासविधुरः प्रशापमुखराननः ।
रामा कपीन्द्र सुश्रीवं प्राप्य मित्रपदे व्यधात् ।। ३७ ॥
बैरिणं प्रातर तस्स हत्वा बाणेन बालिनम् .
किष्किन्धाराज्यलक्ष्मी च ददौ विरहनिःसहः ॥ ३८ ॥