पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१०
काव्यमाला ।

अलंकारक्तीलम्बका


पायाद्वो दयिताकेलिकोपे शंभोः प्रणामिनः ।
चन्द्रलेखानिषक्तव तत्प्रसादसितच्छटा ॥ १ ॥
ततः कदाचित्खपुरीपर्यन्तविपिनावनिम् ।
मृगयारसिकः प्रायासानुगो नरवाहनः ॥ २ ॥
(राजपुत्रसहस्राणि परित्यज्य सगोमुखः ।
विलोलहारः प्रययौ बाजिना वातरंहसा ॥ ३ ॥
स्फुटस्वरपदं दूराच्छ्रुत्वा कर्णरसायनम् ।
गीतध्वनि समाकान्तो विवेश व्यम्बकालयम् ॥ ४॥
प्रणम्य तत्र श्रीकण्ठं दिव्यकन्यां ददर्श सः ।
दासीसहस्रानुगतां गायन्ती शंकरस्तुतिम् ॥ ५ ॥
खप्रभाभरणारत्नभूषणानि बभार या ।
कान्ता सुकविवाणीव पुनरुक्तं प्रमादजम् ॥ ६ ॥
तगीतश्रवणाश्चर्यलोलमौले पिनाकिनः)।
या चूडा चन्द्रलेखेव तन्वी निपतिता पुरः ॥ ७ ॥
विभ्रमारम्भवलितैर्विलासललितायतैः ।
फुल्लोत्पलवनानीव कटाक्षर्विततार या ॥ ८ ॥
तो विलोक्य सुधापद्ममनोजन्मजयश्रियम् ।
नरवाहनदत्तोऽभूदमन्दानन्दसुन्दरः ॥ ९ ॥
सापि साङ्गमिवानङ्गं तं वीक्ष्य कमलेक्षणम्
हर्षकम्पोत्तरङ्गाभूत्सरसीवानिलाकुला ॥ १०
तयोरभिन्नयोझिन्नमन्मथारम्भविभ्रमे ।
अवतीर्णाम्बा
राद्दिव्ययोषिदायात्तदन्तिकम् ॥ १.१ ।।
अनुद्धतार्थवेषेण सूचितात्यन्तगौरवाम् ।
जननीभित्र सोमस्य स्फटिकस्वच्छविग्रहाम् ॥ १२ ॥