पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-कर्पूरमञ्जरीविवाहः ।।
५०९
वृहत्कथामञ्जरी ।

ततो यथाचे तां कन्यां नृपमम्मेत्य गोमुखः ।
नामाभिजनमावेध नरवाहस्य विश्रुतम् ॥ ४९८ ॥
दृष्टा स्मराकृतिजुषां लक्षणैश्चक्रवर्तिनाम् ।
ददौ नरपतिः पुत्री स तसै विपुलोत्सवः ॥ ४९९ ।।
ततो विवाहवसुधां प्राप्तां कर्पूरमञ्जरीम् ।
मञ्जरौं यौवनतरोद॑दर्श नरवाहनः ॥ १० ॥
उत्सवं पुष्पधनुषो विश्रमस्योद्भवावनिम् ।
संगीतशाला लीलाया निधानं रूपसंपदः ।। ५०१॥
परिणीय मनोजन्मत्रैलोक्यजयमालिकाम् ।
रराज वत्सेशसुतः प्राप्य गौरीमिवेश्वरः ।। ६०२॥
इति कर्पूरमञ्जरीविवाहः ॥ १३ ॥
अत्रान्तरे प्राणधरः समभ्येत्य स तक्षकृत् ।
ददौ यन्त्रविमानं तत्तसै वज्रधरानुजः ॥ ९.३ ।।
तदाकर्ण्य नरेन्द्रेण पूजितो दयितासखः ।
सगोमुखप्राणधरः प्रययौ नरवाहनः ।। ६.०४ ॥
पुनस्त्वां प्राप्तविद्योऽहं समेष्यामीति सादरम् ।
स बजघरमाभाष्य कौशाम्बी तूर्णमभ्ययात् ।। ९०६ ॥
तत्र प्रणन्ध वत्सेशं. प्रहर्षविहितोत्सवम् ।
जनन्यौ च प्रियां प्राप्य विरहापाण्डुराननाम् ॥ ५.०६ ॥
रत्नप्रभा स्फुरत्काममौलिरलप्रभामिव ।
कर्पूरमञ्जरी भेजे मदनोद्यानमञ्जरीम् ।। ९०७ ।।
अथ विलसदमन्दानन्दनिष्यन्दसिन्धुः
प्रणयभुवि दधानश्चारु कर्पूरवल्लीम् ।
सरविजयपताकां तां च रलप्रमाख्या-
मुचितसचिवनमस्मेरवको रराज ॥ ५०८॥
इति श्रीक्षेमेन्द्रविरचितायो बृहत्कथामार्यो रत्नप्रभा नाम चतुर्दशी लन्धकः ।