पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
काव्यमाला ।

दिनमेकं वितीर्णा तां ज्ञात्वा तत्रैव सुन्दरीम् ।
स्थितां क्रोधादर्थलोभो वणिजं योद्धमाययौ ॥ ४८५ ॥
प्रवराश्ववरानीकैर्निर्लजः सज्जितो जवात् ।
वणिजा तेन राजानं जगाम शरणं निजम् ॥ ४८६ ॥
राजापि स्वयमालोक्य तया न्यायं विचारधीः ।
अर्थलोभस्य सर्वस्वं हृत्वा परमपूजयत् ।। ४८७ ॥
इति वज्रधरेणोक्तां कथां श्रुत्वा नृपात्मजः ।
प्रातर्यन्त्रविमानेन तद्दत्तेनाम्बुधिं ययौ ॥ ४८८ ॥
इत्यर्थलोभाख्यायिका ॥ १२ ॥
कर्पूरद्वीपमासाद्य नरवाहः सगोमुखः ।
व्रजन्विवेश वृद्धायाः क्षपामेकां निवेशनम् ॥ ४८९ ॥
कर्पूरमञ्जरीवृत्तं तेन पृष्टा च सावदत् ।
राजहंसी बभूवैषा कन्यका पूर्वजन्मनि ।। ४९० ॥
राजहंसेन सहिंता नीडे चन्दनशाखिनः ।
शावकानब्धिकल्लोलहतान्दृष्ट्वा शुशोच सा ।। ४९१ ॥
तत्तो जले तनुं त्यक्त्वा जाता जातिस्मरा सती ।
स्मृत्वा हसं तमस्नेहं विवाहविमुखी स्थिता ॥ ४९२ ॥
इति वत्सेश्वरसुतः श्रुत्वा गोमुखसंमतः ।
मिथ्याप्रलापमुखरो राजधानीं समभ्ययात् ।। ४९३ ।।
हा हंसीत्यसकृत्तत्र विक्रोशन्तं विलोक्य तम् ।
पप्रच्छुर्गोमुखं राजकन्यकान्तःपुरलियः ॥ ४९४ ॥
सोऽब्रवीद्राजहंसोऽयमभूज्जलनिधेरतटे ।
पोतशोकात्पीत्या चास्य तत्यांज सलिले तनुम् ॥ ४९५ ॥
तद्वियोगादयमपि प्राक्षिपद्वपुरम्बुधौ ।
जालिमरोऽद्य तामेन सारन्हंतीं प्रसर्पति ॥ ४१६ ।।
इति तद्वचनं दास्यो राजपुत्र्यै न्यवेदयन् ।
सा चाभूतविद्वेयं त्यक्तुं परिणयोत्सुका ।। ४२७ ॥