पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-अर्थलोभाख्यायिका :।
५०७
बृहत्कथामञ्जरी ।

पूजितो ज्ञातवृत्तेन स्वादु भुक्त्वामृतोपमम् ।
सुष्वाप रत्नपर्यङ्के नरवाहः सगोमुखः ॥ ४७२ ।।
वीतनिद्रो निशि खैरं सरन्कर्पूरमञ्जरीम् ।
विनोदिनीं वज्रधरकथां सोऽपृच्छदुत्सुकः ॥ ४७३ ।।
सोऽब्रवीदर्थलोभाख्यो मन्त्री भूमिपतेरभूत् ।
धनी बाहुबलाख्यस्य यो लोभ इब जङ्गमः ॥ ४७४ ।।
तस्य मातापरा नाम भार्याभूद्वरवर्णिनी ।
लावण्यदर्पणे यस्याः संक्रान्त इव मन्मथः ।। ४७६ ।।
देशान्तरगतं ज्ञात्वा वणिजं स तुरङ्गमान् ।
धनेन तस्मादाहतु निजजायां विसृष्टवान् ॥ ४७६ ॥
कथं कुलाशनावृत्ते परैः संभाषणं क्षमम् ।
इत्यनिच्छामपि सतीं प्रेषयामास मन्दधीः ॥ ४७७ ॥
गत्वा सुखधनं प्राह तरुणं सा भिषवरम् ।
धनेनाश्वान्प्रयच्छेति श्रुत्वा सोऽप्याह विसितम् ॥ ४७८ ॥
किं धनेन विशालाक्षि निधानं त्वं मनोभुवः ।
गृहाणाश्वसहस्रं (मे रात्रिमेकां भजस्व माम् ॥ १७९ ।।
श्रुत्वेति लज्जिता तन्वी लतेव अमराकुला ।
क्षणं नम्रानना साभू)नेत्रांशुशबलतनी ॥ ४८० ॥
सा मत्वा वणिजो वाक्यं सती (भरें न्यवेदयत् ।
अर्थलोभोऽपि तां प्राह को दोषस्त्वं भज क्षणम् ॥ ४८१ ॥
अथ सा वज्रिलोमेन) भर्त्रा संप्रेषिता बलात् ।
आदायाश्वान्निशामेकां कान्तां भेजे वणिक्युतः ॥ ४८२ ॥
सोऽभवद्वल्लभस्तस्या रतावमृतनिर्झरः ।
सद्यः प्ररूढविश्राम्भविलासरसनिर्भरः ।। ४८३ ।।
हीनसत्त्वं ततो बाला सा तत्याज निजं पतिम् ।
ऐक्षवं स्पन्दभासाध को हि निस्वरसं पिबेत् ।। ४८४ ॥


१-२. एतत्कोष्ठान्तर्गत पाठः ख-पुस्तके अदित::