पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
काव्यमाला ।

ततो ददर्श रुचिरं सुमेरुशिखरोपमम् ।
संगम नाम नगरं काञ्चनोत्तालतोरणम् ॥ ४६० ॥
न तत्र पुरुषः कश्चिदृश्यते ललनापि वा।
केवलं यन्त्ररचित्ता भान्ति काष्ठमया नराः॥ ४६१ ॥
सं प्राप्यान्तःपुरं हैमं ददर्श स्फटिकासने ।
सजीवमेकं पुरुषं सेवितं यन्त्रचेटकैः ॥ ४६२ ।।
नरवाहनदत्तस्तं दृष्ट्वा विपुलविस्मयः ।
पप्रच्छ पृष्टः सोऽप्याह वितीर्णकनकासनः ॥ ४६३ ॥
राज्ञो महाबलाख्यस्य पुरे काञ्चीति विश्रुते ।
अहं वनधरो नाम तक्षकृत्कुशलः प्रभो ॥ ४६४ ॥
यत्रन्मायाकृतौ यस्य मयस्येव यशो भुवि ।
मम प्राणधरो नाम आता कुशल
वेश्याविलासरसिको दिवसैनिर्धनोऽभवत् ।
स यन्त्री किल काहंसैः कोशाद्रत्नानि भूपतेः ॥ ४६६ ॥
जहार वार्यमाणोऽपि मया निग्रहभीरुणा ।
परेऽहि तेषु बद्धेषु कोशपालेषु पक्षिषु ॥ ४६७ ॥
स ययौ यन्त्रचक्रेण राजभीत्या दिगन्तरम् ।
भीतोऽहमपि यन्त्रेण यत्र द्विगुणरंहसा ॥ ४६८ ॥
प्राप्तः शिवप्रसादेन शून्यं हैममिदं पुरम् ।
इह स्थितस्य मे देव वस्त्रालंकारभोजनम् ॥ ४६९ ॥
चिन्तितं संभवत्येव विना मानुषसंगमम् ।
निर्जनस्थितिखिन्नेन दिव्यभोगेऽपि तिष्ठता !
निर्मिता यन्त्रपुरुषा मया चेतोविनोदिना ॥ ४७० ॥
इति तस्य वचः श्रुत्वा विसितो नरवाहनः
विधातृशक्तिचित्रेति ध्यात्वा स्वं वृत्तमभ्यधात् ॥ ४७१ ॥
इति वज्रधराख्यायिका ॥ ११ ॥